SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥८८॥ चतुर्थं पर्व द्वितीयः सर्गः श्रीवासुपूज्यचरितम् । 282828282828282828282828285 सद्यः सैन्यानि सेनान्यः सामन्ता मन्त्रिणोऽपि च । राजानो बद्धमुकुटाः सुभटाश्च महारथाः ॥२४३ ॥ वीर्यकण्डूलदोर्दण्डाश्चिराय समरार्थिनः । सनाभयोऽन्तकस्येव राजानमुपतस्थिरे ॥२४४ ॥ महीकम्प-तडित्पात-कांकरोलादिभिर्भृशम् । सूच्यमानाशुभोदर्कोऽप्यचालीत् तारकस्ततः ॥२४५ ॥ स प्रयाणैरविच्छिन्नैः क्रोधाध्मातोऽर्धचक्रभृत् । अर्धमार्गमलविष्ट द्राघिष्टमपि हि द्रुतम् ॥ २४६ ॥ सब्रह्म-विजयाऽनीकस्तत्र तस्याग्रतोऽपि हि । द्विपृष्टोऽप्याहवोत्कण्ठी कण्ठीरव इवाऽययौ ॥ २४७ ॥ अडोच्छासासकृत् त्रुट्यत्सर्वसन्नाहजालिकाः । द्वयोः संवर्मयामासुः सैनिकाः कथमप्यथ ॥ २४८ ॥ तयोरभूत् संप्रहारो महासंहारकारणम् । मृत्योरभ्यवहाराय महानसगृहोपमः ॥२४९ ॥ निपेतुरुभयत्रापि लक्षशश्छत्रमौलयः । न संख्याऽप्यन्ययोद्धृणां पतितानामबुध्यत ॥ २५० ॥ पुण्डरीकवती छत्रैः पूरिता रक्तवारिभिः । रणभूरभवत् क्रीडावापी पितृपतेरिव ॥ २५१॥ जैत्रं रथमथारुह्य द्विपृष्ठः पर्यपूरयत् । पाञ्चजन्यं जन्यजयाह्वानमन्त्रोपमध्वनिम् ॥२५२ ॥ सिंहनादादिव मृगा हंसा इव घनस्वनात् । पाञ्चजन्यध्वनेस्तारात् त्रेसुस्तारकसैनिकाः ॥ २५३ ॥ त्रस्तान् स्वसैनिकान् दृष्ट्वा हेपयित्वा निवर्त्य च । द्विपृष्ठं स्वयमभ्याट रथमारुह्य तारकः ॥२५४॥ विजयेनान्वीयमानो लाईंलाऽयोघ्नधारिणा । शार्ङ्गमारोपयच्छाी सुत्रामेवर्जुरोहितम् ॥ २५५ ॥ १ सबान्धवाः । २ काकरोल: 'काका' इति काकध्वनि:- भाषायाम्- 'कागारोल' इति । ३ उदर्कः भविष्यन् परिणामः। ४ दीर्ध-तमम् ।५ आहवः युद्धम् । ६ कण्ठीरवः सिंहः । ७ संवर्मयामासुः-सन्नाहं चक्रुः। ८ अभ्यवहारो भोजनम् । ९ महानसम् - रसवती-स्थानम् । १० यमस्य । ११ जन्यम्युद्धम्। १२ तारम्-उग्रम् । १३ लज्जित्वा। १४ लाङ्गल-अयोध्नधारिणा, अयोध्नः-प्रहरणविशेषः । १५ सुत्रामा इव ऋजुरोहितम् इति पदविभागः । सुत्रामा-ईन्द्रः ऋजुरोहितम्' धनुविशेष ः। 828282828282828282828282828 द्विपृष्ठविजयतारक चरितम्। ॥८८॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy