SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ चतुर्थं पर्व प्रथमः त्रिषष्टिशलाकापुरुषचरिते ॥६९॥ सर्गः श्रेयांस जिन चरितम्। KYNYRYNYRYPERURYPYRYNY PYPYRX महाटव्यामिवोद्याने श्मशान इव वेश्मनि । गृहस्रोतःस्विव क्रीडासरः स्रोतस्विनीष्वपि ॥९००॥ अपि बन्धुसमाजेषु वैरिवृन्देष्विवानिशम् । न रति बलभद्रोऽगादल्पवारिणि मत्स्यवत् ॥९०१॥॥युग्मम् ॥ श्रेयांसस्वामिपादानां स्मरन् श्रेयस्करी गिरम् । संसारासारतां ध्यायन् विषयेभ्यः पराङ्मुखः ॥९०२ ॥ स्वजनानामपरोधात स्थित्वाहानि च कानिचित् । ययौ बलो धर्मघोषाचार्यपादान्तमन्यदा ॥९०३॥॥युग्मम् ॥ शुश्राव देशनां तस्मादर्हद्वागनुवादिनीम् । विशेषाद् भवनिर्वेदमाससाद तया बलः ॥९०४॥ सद्यो जग्राह दीक्षां च तत्पादान्ते स शुद्धधीः । अनुष्ठाने प्रवर्तन्ते ज्ञात्वा खलु महाशयाः ॥९०५ ॥ स सम्यक् पालयन् मूलगुणोत्तरगुणान् गुणी । सर्वत्र समतां बिभ्रत् सहमानः परीपहान् ॥९०६ ॥ वायुरिवाप्रतिबद्धो भुजङ्गम इवैकहक् । कञ्चित् कालं विजहार ग्रामा-ऽऽकर-पुरादिषु ॥९०७॥॥युग्मम् ॥ अथाब्दलक्षाण्यतिवाह्य पञ्चाशीतिं निसर्गामलचित्तवृत्ति :। कर्माणि सर्वाण्यपि घातयित्वा प्रापाचलः सिद्धिपदे निवासम् ॥९०८ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि श्रीश्रेयांसजिनत्रिपृष्ठाचलाश्वग्रीवचरितवर्णनो नाम प्रथमः सर्गः 282828282828282828282828282 अचलस्य मोक्षः। ॥६९॥ ०व सुखं क्रीडास्रोत०। १ आग्रहात् । २ वैराग्यम्। तयाचल:।
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy