SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व द्वितीयः सर्गः अजितसगरचरितम् । ॥५१॥ 28282828282828282828282828 शान्ते नादे च घण्टानां, सेनान्या घोषणे कृते । व्यन्तरास्ते पिशाचाद्या, एयुरिन्द्रान्निजान्निजान् ॥ ४०८॥ इन्द्राः परिवता देवैरत्रायस्त्रिंश-लोकपैः । त्रायस्त्रिश-लोकपा हि, नैषां चन्द्रा-ऽर्कयोरिव ॥४०९ ॥ सामानिकसहौस्तु, ते चतुर्भिः पृथक् । सहस्रैरात्मरक्षाणां, वृताः षोडशभिस्तथा ॥ ४१० ॥ विकृतानि विमानानि, स्वैर्देवैराभियोगिकैः । तेऽधिरुह्य समाजग्मुर्मेरौ भगवदन्तिके॥४११॥ तथाऽणपन्निकादीनां, दक्षिणश्रेणिवर्तिनाम् । उत्तरश्रेणिभाजां च, पिशाचादिसुरेन्द्रवत् ॥ ४१२॥ व्यन्तराष्टनिकायानां, सुरनाथाश्च षोडश । प्राग्वदासनकम्पेन, ज्ञात्वा जन्म जिनेशितुः ॥ ४१३ ॥ मञ्जुस्वरां मञ्जुघोषां, पृथगास्फाल्य सैन्यपैः । घोषणां कारयित्वा च, स्वैः स्वैश्च व्यन्तरैर्युताः ॥ ४१४ ॥ अधिरुह्य विमानानि, विकृतान्याभियोगिकैः । सामानिकादिभिः प्राग्वत्, सम्भूयैयुर्जिनान्तिकम् ॥ ४१५॥ ॥चतुर्भिः कलापकम् ॥ चन्द्रा-ऽऽदित्यावसङ्ख्यातौ, तद्वदात्तपरिच्छदौ । आजग्मतुर्जिनं मेरौ, पितरं तनयाविव ॥ ४१६ ॥ एवमिन्द्राश्चतुःषष्टिः, स्वतन्त्राः परतन्त्रवत् । भक्त्या समापतन्ति स्म स्वामिजन्मोत्सवेच्छया ॥ ४१७ ॥ एकादश-द्वादशयोः, कल्पयोरथ वासवः । स्नात्रोपकरणायाऽऽभियोगिकानादिशत् सुरान् ॥४१८ ॥ तैर्दिश्युत्तरपूर्वस्यामपक्रम्याऽऽभियोगिकैः । विधायोच्चैः समुद्धातमेवं कुम्भा विचक्रिरे ॥ ४१९ ॥ सौवर्णा राजता रानाः, स्वर्णरूप्यमया अपि । स्वर्णरत्नमयाश्चापि, रूप्यरत्नमया अपि ॥ ४२० ॥ स्वर्णरूप्यरत्नमयास्तथा मृत्स्नामया अपि । अष्टाधिकानि प्रत्येकं, शतानि दश समयया ॥ ४२१॥ १ सेनापतिभिः । २ मृण्मयाः । 28282828282828282828282828 मेरुशिरसि अच्युतेन्द्रविहितमजितजिनपूजनम् ॥५१॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy