SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व द्वितीयः सर्गः अजितसगरचरितम् । ॥४७॥ 282828282828282828282828286 समापतन्तो युगपत्, सम्मन दिवौकसः । अन्योऽन्यमास्फलन्ति स्म, तरङ्गा इव वारिधेः ॥ ३४९ ॥ गगने शक्रयानेन, गच्छतः स्वामिनः पुरः । पुष्पप्रकरतां भेजुर्ग्रह-नक्षत्र-तारकाः ॥ ३५० ॥ पुरुहूतो मुहूर्तान्तर्मेरुमूर्ध्नि ययौ शिलाम् । अतिपाण्डुकम्बलाख्या, चूलादक्षिणतः स्थिताम् ॥ ३५१ ॥ रत्नसिंहासनोत्सङ्गे, स्वोत्सङ्गस्थापितप्रभुः । तत्र चोपाविशत् पूर्वाभिमुखः पूर्वदिक्पतिः ॥ ३५२ ॥ तदैवैशानकल्पेन्द्रोऽप्युद्भूतासनकम्पतः । अज्ञासीदवधिज्ञानाच्छ्रीमत्सर्वज्ञजन्म तत् ॥३५३ ॥ शक्रवत् सोऽपि सन्त्यज्य, रत्नसिंहासनादिकम् । दत्त्वा पदानि सप्ताऽष्टान्यनमज्जगदीश्वरम् ॥ ३५४ ॥ तस्याऽऽज्ञया च सेनानीर्नाम्नाऽलघुपराक्रमः । घण्टामास्फालयामास, महाघोषां महास्वनाम् ॥ ३५५ ॥ विमानलक्षास्तन्नादोऽष्टाविंशतिमपूरि सः । उद्वेलजलधिध्वानस्तटाचलदरीरिव ॥ ३५६ ॥ देवास्तेषां विमानानां, तन्निनादेन चाऽबुधन् । प्रभातशङ्खध्वनिना, प्रसुप्ता ईव भूभुजः ॥३५७॥ शान्ते तस्मिन् महाघोषाघण्टाघोषे चमूपतिः । पर्जन्यधीरध्वनितः, स एवं घोषणां व्यधात् ॥ ३५८ ॥ जम्बूद्वीपस्य भरते, विनीतायां पुरि प्रभुः । विजया-जितशञ्चोस्तु, द्वितीयोऽजनि तीर्थकृत् ॥ ३५९ ॥ तस्य जन्माभिषेकाय मेरौ यास्यति वः प्रभुः । तत्समं स्वामिना गन्तुं, त्वरध्वं हे दिवौकसः! ॥३६०॥ इत्युच्चकै?षणया, सर्वे देवास्तदैव हि । मन्त्राकृष्टा इवाऽऽजग्मुरैशानपतिसन्निधौ ॥ ३६१ ॥ शूलपाणिरथेशान, उत्तरार्धदिवस्पतिः । रत्नभूषणभृद् रत्नसानुमानिव जङ्गमः ॥ ३६२ ॥ श्वेताम्बरधरः स्त्रग्वी, महावृषभवाहनः । सामानिकादिभिर्देवैः, कोटिशः परिवारितः ॥३६३ ॥ १ शक्रवाहनेन। २ इन्द्रः। ३ गिरिगुहा इव । ४ रत्नगिरिरिव । 28282828282828282828282828 ईशानेन्द्रागमनम्। ॥४७॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy