SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व द्वितीयः सर्गः अजितसगरचरितम्। ॥४५॥ 828282828282828282828282828 इत्थं महद्धिभिः शक्रः, सुरकोटीभिरावृतः । चतुरैश्चारणगणैः, स्तूयमानमहद्धिकः ॥३२० ॥ नाट्यनीकेन गन्धर्वानीकेन च निरन्तरम् । प्रक्रान्तनाट्याभिनयसङ्गीतककुतूहलः ॥३२१॥ अनीकैः पञ्चभिश्चाऽग्रे, कृष्यमाणमहाध्वजः । पुरस्तूर्यनिनादेन, ब्रह्माण्डं स्फोटयन्निव ॥३२२ ॥ सौधर्मदेवलोकस्योदीचीने तिर्यगध्वनि । तेनाऽऽययौ विमानेनाऽवतितीर्षुर्महीतले ॥ ३२३ ॥ ॥चतुर्भिः कलापकम् ॥ आपूर्णो देवकोटीभिरवरोहन् व्यराजत । विमान: पालकः कल्पः, सौधर्म इव जङ्गमः ॥३२४॥ द्वीपाम्भोधीनसङ्ख्यातानलनिष्ट क्षणादपि । तद् विमानवरं दिव्यं, वेगेनाऽतिमनोगति ॥ ३२५ ॥ सौधर्ममिव भूमिष्ठं, देवक्रीडानिकेतनम् । नन्दीश्वरमहाद्वीपं, तद् विमानमथाऽऽर्सदत् ॥३२६॥ तत्र दक्षिणपूर्वस्मिन्, शैले रतिकराभिधे । गत्वा पुरन्दरो वेगात्, तद् विमानं समक्षिपत् ॥३२७ ॥ सङ्क्षिपन् सङ्क्षिपन्नेवं, विमानं क्रमशो हरिः । जम्बूद्वीपस्य भरते, विनीतामाययौ पुरीम् ॥ ३२८ ॥ तत्र तेन विमानेन, स्वामिनः सूतिकागृहम् । स त्रिः प्रदक्षिणीचक्रे, स्वामिवत् स्वामिभूम्यपि ॥ ३२९ ॥ तस्योदक्पूर्वककुभि, स विमानमतिष्ठिपत् । हरिर्दूराद् यानमिव, सामन्तो राजवेश्मनि ॥३३० ॥ प्राविशत् सूतिकावेश्म, स्वामिनोऽथ पुरन्दरः । कुलीनकर्मकरवद्, भक्तितः सङ्कचत्तनुः ॥ ३३१ ॥ तीर्थकृत्तीर्थकृन्मात्रोरप्यालोकितमात्रयोः । प्रणनाम सहस्राक्षो, धन्यमानी स्वचक्षुषाम् ॥३३२ ॥ तत्र प्रदक्षिणीकृत्य, स्वामिनं विजयां च सः । नमस्कृत्य च वन्दित्वा, चैवमूचे कृताञ्जलिः ॥३३३॥ १ सङ्क्षिसमकरोत् । २ कुलवान् किङ्कर इव । 8282828282828282828282828282 सौधर्मेन्द्रा गमनम्। ॥ ४५ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy