SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ ४२ ॥ xxxxx R E RE R EDE DE DE REDERE तत् पावयितुमात्मानमस्माभिः सपरिच्छदैः । जिनजन्माभिषेकाय, गन्तव्यं तत्र सम्प्रति ॥ २७७ ॥ भवद्भिरपि सर्वद्धय, सर्वैः सर्वबलेन च । तत्र गन्तुं मया सार्द्धमागन्तव्यमिह द्रुतम् ॥ २७८ ॥ तस्यैवमाघोषणया, स्तनितेनेव केकिनः । कलयामासुरानन्दममन्दं त्रिदिवौकसः ॥ २७९ ॥ सद्यो विमानान्यारुह्य, पोतानिव दिवौकसः । आक्रामन्तो नभोम्भोधिमाजग्मुः शक्रसन्निधौ ॥ २८० ॥ अन्तिके स्वामिनो गन्तुं विमानं क्रियतामिति । आदिशत् पालकं नामाऽऽभियोगिकसुरं हरिः ॥ २८१ ॥ उद्विद्रुममिवाऽम्भोधिं, रत्नभित्तिमरीचिभिः । शातकुम्भमयैः कुम्भैरुत्पद्ममिव मानसम् ॥ २८२ ॥ सर्वाङ्गीणं तिलकितमिव दीर्घेर्ध्वजांशुकैः । विचित्रै रत्नशिखरैरुच्छेखरमिवोच्छ्रितैः ॥ २८३ ॥ रत्नस्तम्भैः श्रीकरेणोरिवाऽऽलानैर्मनोरमम् । शालभञ्जीभिरन्याभिरप्सरोभिरिवाऽऽश्रितम् ॥ २८४ ॥ आत्ततालं नटमिव, किङ्कणीजालमण्डितम् । सनक्षत्रं वियदिव, मौक्तिकस्वस्तिकाङ्कितम् ॥ २८५ ॥ ईहामृगाश्ववृषभैर्नरकिन्नरकुञ्जरैः । हंसैर्वनलतापद्मलताभिश्च मनोरमम् ॥ २८६ ॥ लक्षयोजनविस्तीर्णं, जम्बूद्वीपमिवाऽपरम् । पञ्चयोजनशत्युच्चं, विमानं विचकार सः ॥ २८७ ॥ ॥ षड्भिः कुलकम् ॥ तिसृष्वाशासु तस्याऽऽसंस्तिस्रः सोपानपङ्कयः । महागिरेरवतरन्निर्झरोर्म्य इवाऽऽयताः ॥ २८८ ॥ अग्रे सोपानपङ्कीनामभूवन् रत्नतोरणाः । अखण्डाखण्डलधनुः श्रेणिश्रीसोदरा इव ॥ २८९ ॥ १ मेघगर्जितेन । २ मयूराः । ३ यानपात्राणि । ४ सुवर्णमयैः । ५ लक्ष्मीहस्तिन्याः । ६ बन्धनस्तम्भैः । ७ पुत्तलिकाभिः । INCREDEREREDERERERERERERERY द्वितीयं पर्व द्वितीय: सर्गः अजितसगर चरितम् । सौधर्मेन्द्रागमनम् । ॥ ४२ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy