SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ ३६ ॥ EREREDEREREREREREREDEREREAKI महत्तराभिः सामानिक्यङ्गरक्षीभिरेव च । अनीकानीकपतिभिः, पूर्ववत् परिवारिताः ॥ १९० ॥ युस्तत् सूतिकावेश्म, स्वामिजन्मपवित्रितम् । त्रिश्च प्रदक्षिणीचक्रुर्जिनेन्द्र-जिनमातरौ ॥ १९१ ॥ पूर्ववज्ज्ञापयित्वा स्वं, विजयायै प्रणम्य च । अभिष्टुत्य च तत्रोच्चैर्विचक्रुर्मेघदुर्दिनम् ॥ १९२ ॥ ततश्च भगवञ्जन्मभवनाद् योजनावधि । नाऽतिस्तोकां नाऽतिबह्वीं, वृष्टिं गन्धोदकैर्व्यधुः ॥ १९३ ॥ तपसेवांऽहंसां राकाज्योत्स्नया तमसामिव । तया च रजसां शान्तिर्द्राग् वृष्ट्या समजायत ॥ १९४॥ ततो विचित्रमुन्निद्रं, पुष्पप्रकरमाशु ताः । तत्र रङ्गावनौ रङ्गाचार्या इव विचक्रिरे ॥ १९५ ॥ घनसारागुरुप्रायधूपधूमेन चौच्चकैः । तां भुवं वासयामासुर्वासागारमिव श्रियः ॥ १९६ ॥ तीर्थकृत्तीर्थकृन्मात्रोरनत्यासन्नदूरतः । अथाऽमलान् स्वामिगुणांस्ता गायन्त्योऽवतस्थिरे ॥ १९७ ॥ अथ पूर्वरुचकाद्रिवास्तव्या दिक्कुमारिकाः । सहिताः सर्वया ऋद्ध्या, सकलेन बलेन च ॥ १९८ ॥ तत्र नन्दोत्तरानन्दे, आनन्दानन्दवर्धने । विजया वैजयन्ती च, जयन्ती चाऽपराजिता ॥ १९९ ॥ पूर्ववत् सपरीवारास्तदेयुः सूतिकागृहम् । त्रिश्च प्रदक्षिणीचक्रुस्ताः स्वामि- स्वामिमातरौ ॥ २०० ॥ स्वं ज्ञापयित्वा स्वामिन्यै, नत्वा स्तुत्वा च पूर्ववत् । तत्पूर्वतोऽस्थुर्गायन्त्यो, रत्नदर्पणपाणयः ॥२०१॥ अपाच्यरुचकशैलवास्तव्याश्चारुभूषणाः । स्रग्विण्यो दिव्यवसना, इत्यष्टौ दिक्कुमारिकाः ॥ २०२ ॥ समहारा सुप्रदत्ता, सुप्रबुद्धा यशोधरा । लक्ष्मीवती शेषवती, चित्रगुप्ता वसुन्धरा ॥ २०३ ॥ प्राग्वत् परिच्छदभृतस्तस्मिन्नभ्येत्य वेश्मनि । नत्वा प्रदक्षिणापूर्वं, स्वामिन्यै स्वमजिज्ञपन् ॥ २०४ ॥ १ पापानाम् । २ विकसितम् । ३ सूत्रधाराः । ४ दाक्षिणात्यः । FREDEREREREREDEREREREDERERES द्वितीयं पर्व द्वितीय: सर्गः अजित सगर चरितम् । दिक्कुमारिका कृतो जिनजन्मोत्सवः । ॥ ३६ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy