SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व द्वितीयः सर्गः अजितसगरचरितम् । ॥२६॥ 282828282828282828282828288 चेतसा चिन्तयित्वैवं, शुनासीरः ससम्भ्रमम् । सिंहासनं पादपीठं, पादुके अपि चाऽत्यजत् ॥ ४३ ॥ गत्वा पदानि सप्ताऽष्टान्युन्मुखं तीर्थकृद्दिशः । सद्यः कृतोत्तरासङ्गो, देवराजस्ततो भुवि ॥४४॥ विन्यस्य दक्षिणं जानु, वामंच न्यञ्च्य किञ्चन । नमश्चक्रे शिरःपाणिसंस्पृष्टवसुधातलः ॥४५॥॥युग्मम्॥ अवन्दिष्ट जिनं शक्रः, शक्रस्तवपुरःसरम् । जगाम च विनीतायां, जितशत्रुनृपौकसि ॥४६ ॥ ज्ञात्वाऽर्हतोऽवतारं च, तदैवाऽऽसनकम्पतः । भक्त्या समाययुस्तत्राऽपरेऽपि पुरन्दराः ॥ ४७ ॥ तत्र चाऽऽमलकस्थूलैरमलैः समवर्तुलैः । अनध्यॆमौक्तिकगणैर्विन्यस्तस्वस्तिकाजिरम् ॥४८॥ शांतकुम्भमयैः स्तम्भैर्नीलपाञ्चालिकाङ्कितैः । पत्रैर्मरकतमयैरे रचिततोरणम् ॥ ४९॥ परितो रचितोल्लोचमखण्डैः सूक्ष्मतन्तुभिः । दिव्यांशुकैः पञ्चवर्णैः, सन्ध्यामेधैरिवाऽम्बरम् ॥५०॥ सुवर्णधूपघटिकायन्त्रोद्यद्भूमवर्तिभिः । स्थापत्ययष्टिभिरिवोद्यताभिः परिशोभितम् ॥५१॥ स्वामिन्या विजयादेव्याः, शय्यासदनमुच्चकैः । कल्याणीभक्तयोऽभ्येयुरिन्द्राः शक्रादयोऽथ ते ॥५२॥ ॥पञ्चभिः कुलकम् ॥ उन्नते पार्श्वतः किञ्चित्, किञ्चिन्निम्ने च मध्यतः । हंसरोमलतातूलपूर्णोच्छीर्षकशालिनि ॥५३॥ विशदाच्छादनास्तीर्णे, तत्र तल्पे मनोरमे । ददृशुः स्वामिनी गङ्गापुलिने हंसिकामिव ॥५४॥॥युग्मम् ॥ आत्मानं ज्ञापयित्वा ते, नत्वा च व्याचचक्षिरे । विजयायै स्वप्नफलं, तीर्थकृज्जन्मलक्षणम् ॥५५॥ आदिदेश ततः शक्रो, धनदं यदियं त्वया । ऋषभस्वामिराज्यादौ, रत्नाद्यैः परपर्यत ॥५६॥ १ इन्द्रः। २ सुवर्णमयैः । ३ पुत्तलिका । ४ अन्तःपुररक्षकः । 1282828282828282828282828286 अजितप्रभोर्ग भवितरणं, विजयादव्याः स्वप्नदर्शनं च। ॥२६॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy