SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व द्वितीयः सर्गः अजितसगरचरितम् । ॥२३॥ 828282828282828282828282828 ( द्वितीयः सर्गः।) इतोऽस्य जम्बूद्वीपस्य, द्वीपस्य भरते पुरी । अस्ति नाम्ना विनीतेति, शिरोमणिरिवाऽवनेः ॥१॥ तस्यां च त्रिजगद्भर्तुरादितीर्थकृतः प्रभोः । ऋषभस्वामिदेवस्य, मोक्षकालादनन्तरम् ॥२॥ सिद्धि सर्वार्थसिद्धं च, निरवच्छिन्नभावतः । गतेष्विक्ष्वाकुवंश्येषु, सङ्ख्यातीतेषु राजसु ॥३॥ अभूदिक्ष्वाकुवंशस्य, विततच्छत्रसन्निभः । विश्वसन्तापहरणो, जितशत्रुर्महीपतिः ॥४॥ ॥त्रिभिविशेषकम् ॥ यशसा विशदेनोच्चैस्तस्योत्साहादयो गुणाः । प्रपेदिरे सनाथत्वं, धिण्यानीव हिमांशुना ॥५॥ सोऽलब्धमध्योऽब्धिरिव,शशीवाऽऽप्यायको दृशाम्। वज्रौकः शरणेच्छूनां, श्रीवल्लीमण्डपोऽभवत् ॥६॥ स सर्वनरदेवानां, हृदयेषु पदं दधत् । एकोऽप्यनेकतां प्राप, जलेष्विव निशाकरः ॥७॥ अभूदाक्रान्तदिक्चस्तेजोभिरतिदुःसहैः । जगतोऽपि स मूर्धन्यो, माध्याह्निक इवार्यमा ॥८॥ वसुधां शासतस्तस्य, शासनं वसुधाधवाः । अनिशं धारयामासुः, किरीटमिव मूर्धनि ॥९॥ वसुधाया वसून्युच्चैराददे च ददे च सः । विश्वलोकोपकाराय, सलिलानीव वारिदः ॥१०॥ धर्मायाऽचिन्तयन्नित्यं, स धर्माय जगाद च । धर्माय व्यचरत्तस्य, सर्वं धर्मनिबन्धनम् ॥११॥ तस्याऽनुजन्मा नृपतेरसाधारणविक्रमः । सुमित्रविजयो नाम, यौवराज्यधरोऽभवत् ॥१२॥ १ नक्षत्राणीव। २ आह्वादकः । 1282828282828282828282828286 अजितप्रभोर्ग भवितरणं, विजयादव्याः स्वप्नदर्शनं च। ॥२३॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy