SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व प्रथमः सर्गः अजितसगरचरितम् । ॥६॥ 82828282828282828282828288 लक्ष्मीदेव्या निपतद्भ्यां, कटाक्षाभ्यामिवोच्चकैः । स्पृश्यमानश्चामराभ्यामुभयोरपि पार्श्वयोः ॥ ७० ॥ तुरङ्गैः स्वर्णसन्नाहैः, स्वर्णपक्षैः खगैरिव । वेगिभिर्विजितश्वास, रुन्धानः ककुभोऽखिलाः ॥७१ ॥ अञ्जनाचलचूलाभिर्जङ्गमाभिरिवाऽभितः । महास्तम्बेरमै रात्र्यञ्चयन्नवनीतलम् ॥७२॥ स्वयं समन्तात् सामन्तैर्भक्तितः परिवारितः । निजस्वामिमनोज्ञानान्मनःपर्ययिकैरिव ॥७३ ॥ बन्दिकोलाहलस्पर्द्धादिव प्रसृमरैर्दिवि । नादैर्मङ्गलतूर्याणां, दूरात् पिशुनितागमः ॥७४ ॥ करेणुकाधिरुढाभिर्वारस्त्रीभिः सहस्रशः । शृङ्गाररसवापीभिः, परितः परिवारितः ॥ ७५ ॥ सिन्धुरस्कन्धमारुढश्छायाकुलनिकेतनम् । उद्यानं नन्दनप्रायं, प्राप तद् भूमिवासवः ॥७६ ॥ ॥सप्तभिः कुलकम् ॥ उत्तीर्य कुञ्जरस्कन्धादवनीपतिकुञ्जरः । प्रविवेश तदुद्यानं, सिंहो गिरिगुहामिव ॥७७॥ वज्रसंवर्मितमिवाऽभेद्यं मन्मथपत्रिणाम् । रागरोगागदारं, द्वेषद्वेषिद्विषन्तपम् ॥७८ ॥ क्रोधानलनवाम्भोदं, मानद्रुममहागजम् । मायोरगीगरुत्मन्तं, लोभशैलमहाशनिम् ॥७९॥ मोहान्धकारतरणिं, तपस्तेजोऽनलारणिम् । क्षमासर्वस्वधरणिं, बोधिबीजाम्बुसारणिम् ॥८०॥ आराममिव धर्मद्रोरात्मारामं महामुनिम् । आरादरिन्दमाचार्यमद्राक्षीत् तत्र पार्थिवः ॥८१॥ ॥चतुर्भिः कलापकम् ॥ 82828282828282828282828282 पूर्वभवचरिते प्रथमो विमलवाहनभवः । ॥६ ॥ १ महागजैः। २ नम्रीकुर्वन्। ३ मनःपर्यायज्ञानिभिः। ४ सूचितागमनः। ५ छायाव्याप्तस्थानम्। ६ कामबाणानाम् । ७ वैद्यम् । ८ सूर्यम् ।
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy