SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥८६॥ तृतीयं पर्व | पञ्चमः सर्गः श्रीसुपार्श्वजिनचरितम् । इहान्यत्वं भवेद् भेदस्तद्वैलक्षण्यलक्षणः । आत्मदेहादिभावानां साक्षादेव प्रतीयते ।। ९६ ।। देहाद्या इन्द्रियग्राह्या आत्मानुभवगोचरः । तदेतेषामनन्यत्वं कथं नामोपद्यते ? ।। ९७ ॥ आत्मदेहादिभावानां यद्यन्यत्वं स्फुटं ननु । ततो देहप्रहारादौ कथमात्मा प्रपीड्यते ? ।। ९८ ।। सत्यं येषां शरीरादौ भेदबुद्धिर्न विद्यते । तेषां देहप्रहारादावात्मपीडोपजायते ।। ९९ ॥ ये तु देहात्मनोर्भेदं सम्यगेव प्रपेदिरे । तेषां देहप्रहारादावपि नात्मा प्रपीड्यते ।। १०० ॥ भेदं विद्वान् न पीड्येत पितृदुःखेऽप्युपस्थिते । आत्मीयत्वाभिमानेन भृत्यदुःखेऽपि मुह्यति ।। १०१ ।। अस्वत्वेन गृहीतः सन् पुत्रोऽपि पर एव हि । स्वकीयत्वेन भृत्योऽपि स्वपुत्रादतिरिच्यते ।। १०२ ।। सम्बन्धानात्मनो जन्तुर्यावतः कुरुते प्रियान् । तावन्तो हृदये तस्य जायन्ते शोकशङ्कवः ।। १०३ ।। सर्वमन्यदिदं तस्माज्जानीयात्पटुधीर्जनः । कस्यापि हि विनाशात्तन्न मुह्येत्तत्त्ववर्त्मनि ।। १०४ ।। अस्यन्ममत्वमृल्लेपं तुम्बीफलमिवाचिरात् । भवं तरति शुद्धात्मा परिव्रज्याधरो नरः ॥१०५ ।। एवं च देशनां श्रुत्वाऽबुध्यन्त बहवो जनाः । प्रव्रज्यां जगृहुः केऽपि श्रावकत्वमथापरे ॥ १०६ ॥ विदर्भाद्या गणभृतः पञ्चनवतिरभूवन् । ते चक्रुर्दादशाङ्गीं च स्वामिवागनुसारतः ॥१०७ ।। स्वामिनो देशनान्ते च विदर्भो गणभूद्वरः । स्वाम्यघ्रिपीठाध्यासीनो विदधे धर्मदेशनाम् ।। १०८ ।। विदर्भेऽपि गणधरे देशनाविरते सति । नमस्कृत्य प्रभु जग्मुः स्वं स्वं स्थानं सुरादयः ।। १०९ ।। १ अभेदत्वम् । २ पूर्वपक्षोऽयम् । ३ ममत्वमेव मृद् मृत्तिका तस्या लेपम् अस्यन् - दूरी कुर्वन् । * दावपि पी । -जानन्नन्यत्र धी' । | देशना। HASARASHRSHASHASARSHAS ॥८६॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy