SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते तृतीयं पर्व चतुर्थः सर्गः |श्रीपद्मप्रभजिनचरितम् । ।७४॥ क्वचिच्चौर्य क्वचिद् द्यूतं क्वचिन्नीचैर्भुजङ्गता । मनुष्याणां यथा भूयो भवभ्रमनिबन्धनम् ।। १४० ॥ सुखित्वे कामललितैर्दुःखित्वे दैन्यरोदनैः । नयन्ति जन्म मोहान्धा न पुनर्धर्मकर्मभिः ।। १४१ ॥ अनन्तकर्मप्रचयक्षयक्षममिदं क्षणात् । मानुषत्वमपि प्राप्ताः पापाः पापानि कुर्वते ।। १४२ ॥ ज्ञानदर्शनचारित्ररत्नत्रितयभाजने । मनुजत्वे पापकर्म स्वर्णभाण्डे सुरोपमम् ।। १४३ ।। संसारसागरगतैः शमिलायुगयोगवत् । लब्धं कथञ्चिन्मानुष्यं हा ! रत्नमिव हार्यते ॥ १४४ ॥ लब्धे मानुष्यके स्वर्गमोक्षप्राप्तिनिबन्धने । हा ! नरकाप्त्युपायेषु कर्मसूत्तिष्ठते जनः ।। १४५ ।। आशास्यते यत्प्रयत्नादनुत्तरसुरैरपि । तत्सम्प्राप्तं मनुष्यत्वं पापैः पापेषु योज्यते ॥ १४६ ।। परोक्षं नरके दुःखं प्रत्यक्षं नरजन्मनि । तत्प्रपञ्चः प्रपञ्चेन किमर्थमुपवर्ण्यते ।। १४७ ॥ शोकाऽमर्षविषादेदैिन्यादिहतबुद्धिषु । अमरेष्वपि दुःखस्य साम्राज्यमनुवर्तते ।। १४८ ॥ दृष्ट्वा परस्य महतीं श्रियं प्राग्जन्मजीवितम् । अर्जितस्वल्पसुकृतं शोचन्ति सुचिरं सुराः ।। १४९ ।। चिराद् वा बलिनान्येन प्रतिकर्तुं तमक्षमाः । तीक्ष्णेनामर्षशल्येन दोदूयन्ते निरन्तरम् ॥ १५० ॥ न कृतं सुकृतं किञ्चिदाभियोग्यं ततो हि नः । ष्टोत्तरोत्तरश्रीका विषीदन्तीति नाकिनः ।। १५१ ॥ दृष्ट्वान्येषां विमानस्त्रीरत्नोपवनसम्पदम् । यावज्जीवं विपच्यन्ते ज्वलदानलोर्मिभिः ॥१५२ ॥ हा प्राणेश! प्रभो ! देव ! प्रसीदेति सगद्गदम् । परैर्मूषितसर्वस्वा भाषन्ते दीनवृत्तयः ॥ १५३ ॥ १ अनंतकर्मणां प्रचयः समूहस्तस्य क्षये क्षमम् । २ जीवितविशेषणमिदम् । ३ दासत्वम् । * ° भ्रमिनि । SARASANSARSHASHRSS देवगतिस्वरूपम्। ॥७४ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy