SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥६३॥ 449 चैत्रस्य सितनवम्यां पुनर्वसुगते विधौ । समं तैर्मुनिभिः स्वामी प्रपेदे पदमव्ययम् ॥ २६० ॥ युग्मम् ॥ कौमारेऽयुः पूर्वलक्षा दश राज्ये पुनः प्रभोः । पूर्वलक्षैकोनत्रिंशद् द्वादशाङ्गसमन्विता ।। २६१ ।। पूर्वलक्षं द्वादशाङ्गन्यूनं व्रतधरस्य तु । चत्वारिंशत्पूर्वलक्षा इत्यायुः सुमतिप्रभोः ॥ २६२ ॥ अभिनन्दननिर्वाणात् सुमतिस्वामिनिर्वृतिः । कोटिलक्षेषु नवसु सागराणां गतेष्वभूत् ॥ २६३ ॥ भर्तुः सहस्रयतिनां च तदाशरीरसंस्कारमग्निजनितं विधिवद् विधाय । निर्वाणपर्वमहिमानमकार्षुरिन्द्रा नन्दीश्वरान्तरगमंश्च पुनः स्वलोकम् ॥ २६४ ॥ ܀܀܀ इत्याचार्य श्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीयपर्वणि सुमतिस्वामिचरितवर्णनो नाम तृतीयः सर्गः । १ पुनर्वसु नाम नक्षत्रं । 445-96 तृतीयं पर्व तृतीयः सर्गः श्रीसुमतिजिनचरितम् । निर्वाणम् । ॥ ६३ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy