SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥३२॥ ( द्वितीयः सर्ग : श्रीमदभिनन्दनजिनचरितम् । गुणनन्दनं श्रीमत्संवरोर्वीशनन्दनम् । जगदानन्दनं वन्दे जिनेन्द्रमभिनन्दनम् ॥ १ ॥ तस्य प्रभोर्भव्यजनैं मोहनिद्रादिवार्मुखम् । तत्त्वज्ञानसुधाकुम्भं वक्ष्ये चरितमुज्ज्वलम् ॥ २ ॥ अस्यैव जम्बूद्वीपस्य प्राग्विदेहेषु सुन्दरी । अस्ति श्रीमङ्गलकुलं विजयो मङ्गलावती ॥ ३ ॥ तस्यामस्ति समस्तानां रत्नानामाकरोऽब्धिवत् । वसुन्धराशिरोरत्नं पैरत्नं रत्नसञ्चया ।। ४ ।। तस्यामासीन्महाराजो राजराज इव श्रिया । महाबलो नाम बलान्महाबल इवापरः ।। ५ ॥ उत्साहमन्त्रप्रभुताशक्तिभिः स व्यभासत । गङ्गासिन्धुरोहितांशानदीभिर्हिमवानिव ॥ ६ ॥ स उपायैश्चतुर्भिश्च द्विषद्वर्गविजित्वरैः । चकासामास दशनैरिव निर्जरकुञ्जरः ॥ ७ ॥ देवमर्हन्तमेवैकं साधुमेव गुरुं पुनः । धर्मं जिनोपज्ञमेवातिष्ठते स्म स धीनिधिः ॥ ८ ॥ दानशीलतपोभावभेदाद्धर्मे चतुर्विधे । सोऽरंस्त महतां यस्मात्पुण्यं पुण्यानुबन्धकम् ।। ९ ।। स विवेकी भयोद्विद्मः सर्वत्रानित्यतां विदन् । नातुष्यत्छ्रावकधर्मे देशमात्रविरागिणि ॥ १० ॥ ततो विमलसूरीणां पादान्ते दान्तपुंगवः । सोऽग्रहीत्सर्वविरतिं व्रतोच्चारणपूर्वकम् ।। ११ ।। १ गुणाः एव द्रवः वृक्षाः तेषां नंदनं नंदननामकं वनं । २ प्रातःकालसमानम् । ३ नगररलं । ४ कुबेरः । ५ सामदामभेददडैः । * "जन्तु मो° । ■ नः अकर्तृकं जगदिवाति° । + विरामिणी । *৬ तृतीयं पर्व द्वितीयः सर्गः अभिनन्दन जिनचरितम् । पूर्वभवचरितम् । ॥३२॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy