SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥२९॥ पूर्णायामथ पौरुष्यां व्यस्राक्षीद् देशनां प्रभुः । शाल्याढकंबली राजभवनादाजगाम च ।। ३७९ ।। क्षिप्तस्य तस्य खाद् भ्रश्यदर्धं देवैश्च्युतस्य तु । नृपैरर्धं नरैरर्धं विभज्य जगृहे मुदा ॥ ३८० ॥ अथोत्थायोत्तरद्वारा विनिर्गत्य जगदुरुः । देवच्छन्दे विशश्रामाश्रान्तोऽपि स्थितिरीदृशी ।। ३८१ ।। स्वाम्यंघ्रिपीठमध्यास्य चारुर्गणधराग्रणीः । स्वामिप्रभावाद्विदधे देशनां संशयच्छिदम् ॥ ३८२ ॥ द्वितीयस्यां च पौरुष्यां पूर्णायां देशनाविधेः । व्यरंसीत् कालवेलायामागमाध्ययनादिव ॥ ३८३ ॥ ततश्च स्वामिनं नत्वा सुरासुरनृपादयः । स्वं स्वं स्थानं ययुः सर्वे मुदा वीतोत्सवा इव ।। ३८४ ॥ तीर्थे तत्र समुत्पन्नस्त्रिमुखो नाम यक्षराट् । त्रिनेत्रस्त्रिमुखः श्यामः षड्बाहुर्बर्हिवाहनः ।। ३८५ ।। दक्षिणैर्नकुलधरगदाभृदभयप्रदैः । युतो वामैर्भुजैर्मातुलिन्दामाक्षसूत्रिभिः ।। ३८६ ।। तीर्थे तत्रैव चोत्पन्ना दुरितारिरभिख्यया । चतुर्भुजा गौरवर्णा मेषवाहनगामिनी ।। ३८७ ।। दक्षिणाभ्यां भुजाभ्यां तु वरदेनाक्षसूत्रिणा । वामाभ्यां शोभमाना तु फणिनाभयदेन च ॥ ३८८ ॥ त्रिमुखो दुरितारिश्च ततः शासनदेवते । सन्निधाने सदा भर्तुरभूतामात्मरक्षवत् ॥ ३८९ ॥ ततः स्थानात् प्रभुरपि साधुभिः परिवारितः । चतुस्त्रिंशदतिशयान्वितो व्यहरदन्यतः ॥ ३९० ॥ विभोर्विहरतोऽभ‍ ऽभूवन् द्वे लक्षे व्रतिनामथ । व्रतिनीनां तु षट्त्रिंशत्सहस्राणि त्रिलक्ष्यपि ।। ३९१ ।। सर्वपूर्वभृतां सार्धा शतानामेकविंशतिः । शतानि च षण्णवतिरवधिज्ञानशालिनाम् ।। ३९२ ॥ १ आढकप्रमाण: शालिबलिः । २ आकाशात् । ३ विश्रामस्थानविशेषे । ४ निवृत्तोत्सवाः । ५ मयूरवाहनः । ६ नाम्ना । ७ चतुर्दशपूर्वधारिणां । * ढके ब° । श्राद् विना मानाऽक्ष° । तृतीयं पर्व प्रथमः सर्गः श्रीसम्भवजिनचरितम् । सम्भवजिनस्य परिवारः । ॥२९॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy