SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरि 118 11 विनेतरि दुराचारानर्थिभ्योऽर्थांश्च दातरि । अधार्मिको दुःस्थितो वा तस्मिन् राज्ञि न कोऽप्यभूत् ॥ १०८ ॥ सोऽस्त्रपाणिः कृपालुश्च शक्तिमांश्च क्षमापरः । विद्वांश्च गतमात्सर्यो युवा चासीत्जितेन्द्रियः ।। १०९ ।। बभूव महिषी तस्यानुरूपा रुपसम्पदा । सेनानीर्गुणसैन्यानां सेनादेवीति नामतः ।। ११० ।। अबाधमान इतरान् पुरुषार्थान् यथाक्षणम् । अरंस्त स तया देव्या रोहिण्येव हिमद्युतिः ।। १११ ।। इतश्च नवमे कल्पे स्वमायुः पर्यपूरयत् । जीवस्तदानीं विपुलवाहनस्य महीपतेः ।। ११२ ।। फाल्गुनस्य सिताष्टम्यां चन्द्रे मृगशिरः स्थिते । आनतात्स परिच्युत्य सेनाकुक्षाववातरत् ।। ११३ ॥ क्षणं सुखं तदा जज्ञे नारकप्राणिनामपि । लोकत्रयेऽपि चोद्योतो विद्युदुद्योतसोदरः ।। ११४ ।। शयानया रात्रिशेषे प्रविशन्तो मुखाम्बुजे । सेनादेव्या ददृशिरे महास्वप्नाश्चतुर्दशः ।। ११५ ।। गर्जन् गजपतिर्गौरः शरन्मेघ इवोच्चकैः । वृषः स्फटिकशैलस्य गण्डशैल इवामलः ।। ११६ ।। केसरी केसरभरेणातिकुङ्कुमकेसरः । क्रियमाणाभिषेका च करिभ्यां कमलालया ।। ११७ ।। पंचवर्णप्रसूनस्रक् सन्ध्याभ्रच्छवितस्करा । राजतो दर्पण इव सम्पूर्णो रजनीकरः ।। ११८ ॥ विसूत्रितान्धकारं च चण्डदीधीतिमण्डलम् । प्रक्वणत् किङ्किणीजालपताकश्च महाध्वजः ।। ११९ ।। तापनीयः पयस्कुम्भः पयोजपिहिताननः । विकासिभिः स्मयमानमिव पद्यैर्महासरः ।। १२० ॥ ऊर्मिविहस्तकैर्नृत्यन्निव क्षीरमहोदधिः । अदृष्टप्रतिमानं च विमानं रत्ननिर्मितम् ॥ १२१ ॥ रत्नपुञ्ज मणिगणः पातालफणिनामिव । विभावसुश्च निर्धूमः प्रत्यूषतपनोपमः ॥ १२२ ॥ १ देवलोके । २ तन्नाम्नो नवमदेवलोकात् । ३ गिरेश्च्युतः स्थूलोपलः । ४ लक्ष्मीः । ५ पुष्पमाला । ६ सौवर्णः । --- तृतीयं पर्व प्रथमः सर्गः श्रीसम्भव जिनचरितम् । सम्भवजिनस्य गर्भावतरणम् । चतुर्दश स्वप्नाः । 118 11
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy