SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ २१४ ॥ FRYRYDER & R RYDY RYDERERENI पश्चादुपात्तदीक्षोऽपि तपसाऽध्ययनेन च । चिरप्रव्रजितेभ्योऽपि राजर्षिः सोऽत्यरिच्यत ॥ ६६३ ॥ घातिकर्मक्षयात् तस्य, केवलज्ञानमुज्ज्वलम् । उदभूद् दुर्दिनच्छेदात्, प्रताप इव भास्वतः ॥ ६६४ ॥ आरभ्य केवलोत्पत्तेरुर्व्यां विहरतः सतः । अजितस्वामिनः पञ्चनवतिर्गणभृद्वराः ॥ ६६५ ॥ लक्षं मुनीनां साध्वीनां पुनस्त्रिंशत्सहस्त्रयुक् । लक्षत्रयं पूर्वभृतां सप्तत्रिंशच्छतानि तु ॥ ६६६ ॥ मन:पर्ययिसहस्राः, सहसार्धचतुःशताः । द्वादशाऽवधिभाजां तु, चतुर्णवतिशत्यथ ॥ ६६७ ॥ उत्पन्नकेवलानां तु, द्वाविंशतिसहस्यभूत् । द्वादश वादलब्धीनां सहस्राः सचतुःशताः ॥ ६६८ ॥ वैक्रियलब्धिसहस्रा, विंशतिः सचतुःशताः । ऊना द्वाभ्यां सहस्राभ्यां श्रावकाणां त्रिलक्ष्यथ ॥ ६६९ ॥ पञ्चचत्वारिंशत्सङ्ख्यैः, सहस्रैरधिकानि तु । श्राविकाणां पञ्चलक्षाण्यजायन्त जगद्गुरोः ॥ ६७० ॥ एकाङ्गोने पूर्वलक्षे, दीक्षाकल्याणकाद् गते । निर्वाणसमयं ज्ञात्वा, सम्मेताद्रिं विभुर्ययौ ॥ ६७१ ॥ लोकाग्रस्येव सोपानं, सम्मेतमधिरूढवान् । द्वासप्ततिपूर्वलक्षसङ्ख्यायुरजितप्रभुः ॥ ६७२ ॥ श्रमणानां सहस्रेण, समं तत्र जगद्गुरुः । पादपोपगमं नामाऽनशनं प्रत्यपद्यत ॥ ६७३ ॥ तदा युगपदिन्द्राणामासनानि चकम्पिरे । अनिलान्दोलितोद्यानवृक्षशाखा इवाऽभितः ॥ ६७४ ॥ प्रयुक्तावधयस्ते तु निर्वाणसमयं प्रभोः । विदाञ्चक्रुरुपेयुश्च, सम्मेतगिरिमूर्धनि ॥ ६७५ ॥ तत्र प्रदक्षिणीचक्रुः, सामरास्ते जगद्गुरुम् । शुश्रूषमाणास्तस्थुश्च पादान्तेऽन्तिषदो यथा ॥ ६७६ ॥ पादपोपगमस्याऽथ, मासे पूर्णे जगद्गुरुः । चैत्रस्य शुक्लपञ्चम्यां, चन्द्रे मृगशिरः स्थिते ॥ ६७७ ॥ १ एकपूर्वाङ्गोने इत्यर्थः । २ शिष्याः । CREDEREREDERERERERERERERERI द्वितीयं पर्व षष्ठः सर्गः अजित सगर चरितम् । अजितस्वामिसगरनिर्वाणम् । ॥ २१४ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy