SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ २०७ ॥ D G D G D G D Y DEREREDERE DE R । अष्टमे च परिणमत्युपतस्थे भगीरथम् । पतिर्नागकुमाराणां, प्रसन्नो ज्वलनप्रभः ॥ ५६१ ॥ गन्धैर्धूपैश्च माल्यैश्च तेनोपचरितो भृशम् । स्वामी नागकुमाराणां किं करोमीत्यभाषत ॥ ५६२ ॥ अथ भगीरथोऽप्यम्भोधरध्वानगभीरगीः । उवाच विनयेनाऽपि, सप्रभो ज्वलनप्रभम् ॥ ५६३ ॥ अष्टापदाद्रिपरिखामापूर्येयं सरिद्वरा । निरर्गलं प्रसरति, पन्नगीव बुभुक्षिता ॥ ५६४ ॥ क्षेत्राण्येषा हि खनति, प्रोन्मूलयति पादपान् । सदृशीकुरुते सर्वान्, स्थपुटानवानपि ॥ ५६५ ॥ प्रभ्रंशयति वप्रांश्च, प्रासादान् दलयत्यलम् । प्रपातयति हर्म्याणि, निगृह्णाति गृहाणि च ॥ ५६६ ॥ तां पिशाचीमिवोन्मत्तां, देशविध्वंसकारिणीम् । दण्डेनाऽऽकृष्य पूर्वाब्धौ क्षिपामि त्वदनुज्ञया ॥ ५६७ ॥ ततः प्रसन्नो ज्वलनप्रभनागस्तमभ्यधात् । निजं समीहितं कुर्या, निर्विघ्नं भवतोऽस्त्विति ॥ ५६८ ॥ येsमुष्मिन् भरतक्षेत्रे, नागास्ते मम शासने । मदनुज्ञाप्रवृत्तः सन् मा भैषीस्तदुपद्रवात् ॥ ५६९ ॥ अभिधायेति नागेन्द्रः, प्रविवेश रसातलम् । विदधेऽष्टमभक्तान्ते, पारणं च भगीरथः ॥ ५७० ॥ वैरिणीमिव भिन्नक्ष्मां स्वच्छन्दां स्वैरिणीमिव । मन्दाकिनीमथ ऋष्टुं, दण्डरत्नं स आददे ॥ ५७१ ॥ मालामङ्कटकेनेव, दण्डेनाऽऽकर्षति स्म ताम् । निनदन्तीं नदीं चण्डभुजदण्डो भगीरथः ॥ ५७२ ।। कुरूणां मध्यभागेन, नगरं हस्तिनापुरम् । दक्षिणेन पश्चिमेन, पुनः कोशलनीवृतः ॥ ५७३ ॥ उत्तरेण प्रयागं च, कासीनां दक्षिणेन च । विन्ध्यान्तर्दक्षिणेनाङ्गान्, मगधानुत्तरेण च ॥ ५७४ ॥ १ पूजितः । २ स्थपुटान् उच्चप्रदेशान् । ३ अवटान् निम्नप्रदेशान् । ४ मालाकारप्रतिबद्धमणिकरूपाङ्कोटकवत् । G D G D G D G DEDEDEREREDERERERERY! द्वितीयं पर्व षष्ठः सर्गः अजित सगर चरितम् । गङ्गाप्रवाहस्खलनाय भगीरथस्य गमनम् । ॥ २०७ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy