SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ १८३ ॥ 'REDEREREREREREREDERERE DE REI I यथा नैसर्गिकं धैर्यं, महत् तस्य महीपतेः । मोहोऽप्यागन्तुको जज्ञे, पुत्रक्षयभवस्तथा ॥ २१३ ॥ | एककोश इव खड्गावेकस्तम्भ इव द्विपौ । प्रबोध - मोहौ युगपत्, तदा राज्ञि बभूवतुः ॥ २१४ ॥ अथ बोधयितुं भूपं, सुबुद्धिर्नाम बुद्धिमान् । वाचा पीयूषसध्रीच्येत्युवाच सचिवाग्रणीः ॥ २१५ ॥ अम्भोधयोऽपि मर्यादां, लङ्घयेयुः कदाचन । आसादयेयुः कम्पं च, कदाचन कुलाचलाः ॥ २१६ ॥ अवाप्नुयात् तरलतां, कदाचिदपि मेदिनी । अपि जर्जरतां वज्रमश्नुवीत कदाचन ॥ २१७ ॥ त्वादृशास्तु महात्मानो, व्यसनेषु महत्स्वपि । उपस्थितेषु वैधुर्यं, न भजन्ते मनागपि ॥ २९८ ॥ ॥ त्रिभिर्विशेषकम् ॥ क्षणाद् दृष्टं क्षणान्नष्टं, कुटुम्बाद्यखिलं भवे । विवेकिन इति ज्ञात्वा, न मुह्यन्ति यथा शृणु ॥ २१९ ॥ जम्बूद्वीप इह द्वीपे, क्षेत्रे भरतनामनि । कस्मिंश्चिन्नगरे कोऽपि, पुराऽभूत् पृथिवीपतिः ॥ २२० ॥ जिनधर्मसरोहंसः, सदाचारपथाध्वगः । प्रजामयूरीजलदो, मर्यादापालनाम्बुधिः ॥ २२१ ॥ सर्वव्यसनकक्षाग्निर्दयावल्ल्येकपादपः । कीर्तिकल्लोलिनीशैलः, शीलरनैकरोहणः ॥ २२२ ॥ स एकस्मिन् दिने स्वस्यामास्थान्यां सुखमास्थितः । यथाक्षणं विज्ञपयाम्बभूवे वेत्रपाणिना ॥ २२३ ॥ पुष्पदामकरो द्वारि, कलाविदिव कोऽपि ना ॥ विज्ञीप्सुं किञ्चिदद्यैव, देवपादान् दिदृक्षते ॥ २२४ ॥ पण्डितः किं कविः किं वा, गन्धर्वः किं नटोऽथ किम् । छान्दसो वा नीतिविद् वाऽस्त्रविद्वाऽथेन्द्रजालिकः ॥२२५॥ इति न ज्ञायते ज्ञातं, त्वाकृत्या गुणवानिति । यत्राऽऽकृतिस्तत्र गुणा, इत्यर्भा अप्यधीयते ॥ २२६ ॥ १ अमृतसमानया । २ सर्वव्यसनतृणवह्निः । ३ सभायाम् । REDERERERERERERERERERERERER द्वितीयं पर्व षष्ठः सर्गः अजित सगर चरितम् । सगरप्रति बोधाय सुबुद्धिमन्युक्तं तान्त्रिकोदाहरणम् । ॥ १८३ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy