SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ १७३ ॥ C D G D G D G REDEREREREDERERERERE इत्युक्तः प्रतिहारेण स द्विजः साश्रुलोचनः । नीहारकणिकाकीर्णसरोरुह इव ह्रदः ॥ ७१ ॥ प्रम्लानवदनेन्दुश्च, निशीथ इव हैमनः । अच्छभल्ल इवातुच्छप्रविकीर्णशिरोरुहः ॥ ७२ ॥ जरत्प्लवङ्गम इव, परिक्षामकपोलकः । मन्दमन्दपदन्यासं प्राविशच्चक्रिणः सदः ॥ ७३ ॥ ॥ त्रिभिर्विशेषकम् ॥ स्वयं कृपालुना सोऽथ, चक्रिणैवमपृच्छ्यत । कच्चित् ते काञ्चनं किञ्चिज्जहे कुत्राऽपि केनचित् ? ॥ ७४ ॥ किं वा रत्नानि केनापि हृतानि वसनानि वा ? । किं वाऽपालापि केनाऽपि, न्यासो विश्वस्तेघातिना ? ॥७५॥ ग्रामारक्षादिना किं वा, केनाऽप्यसि कदर्थितः ? । भाण्डसर्वस्वहरणात्, पीडितः शौल्किकेन वा? ॥ ७६ ॥ दायादेनाऽथ केनापि, प्रापितोऽसि पराभवम् ? । उपदुद्राव कोऽपि त्वां जायाविद्रवणेन वा ? ॥ ७७ ॥ बलवानथवा वैरी, त्वामास्कन्दति कश्चन ? । आधिर्वा बाधते कोऽपि त्वां ? व्याधिरथवोत्कटः ? ॥ ७८ ॥ द्विजातिजातिसुलभं, दारिद्र्यं त्वां दुनोति वा? । अन्यद्वा दुःखकृद् यत् ते, तदाख्याहि महाद्विज ! ॥ ७९ ॥ सद्यो नट इवाऽलीकं, मुञ्चन्न श्रान्तमश्रु सः । ब्राह्मणो व्याजहारैवं, राजानं रचिताञ्जलिः ॥ ८० ॥ द्यौरिवाऽमरराजेन, न्याय - विक्रमराजिना । त्वया राजन्वती राजन्!, षट्खण्डभरतावनिः ॥ ८१ ॥ नाऽऽच्छिन् कस्यचित् कोऽपि, स्वर्ण-रत्नादि किञ्चन । आढ्याः स्वगृहवद् ग्रामान्तरालेऽपि हि शेरते ॥८२॥ न्यासं नाऽपह्नुते कोऽपि, निजं कुलमिवोत्तमम् । स्वपुत्रमिव रक्षन्ति, ग्रामारक्षादयः प्रजाम् ॥ ८३ ॥ | अर्थे लभ्येऽतिरिक्तेऽपि, शुल्कं भाण्डानुमानतः । गृह्णन्ति शौल्किका दण्डमिव मन्तुप्रमाणतः ॥ ८४ ॥ १ हेमन्ततौं रात्रिरिव । २ यथा विशीर्णकेशः भल्लूको भवति तादृश: । ३ सभाम् । ४ अपह्नुतः । ५ विश्वासघातिना । ६ शुल्काध्यक्षेण । ७ जायाया अपहारेण । ८ नापहरति । ९ यथापराधम् । FREREREREREREREREREDERERERI द्वितीयं पर्व षष्ठः सर्गः अजित सगर चरितम् । अपरिचितेन द्विजेन स्वपुत्रमरणमिषेण सगरस्य बोधनम् । ॥ १७३ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy