SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ १४९ ॥ CREDEREREREREDEREREREREDERY द्वात्रिंशताऽब्दसहस्रैः, सगरस्तदशात् सुखम् । अनुत्सुकानां शक्तानां लीलापूर्वाः प्रवृत्तयः ॥ २८७ ॥ चतुर्दशमहारत्नपतिर्नवनिधीश्वरः । द्वात्रिंशता सहस्रैश्च, सेव्यमानो महीभुजाम् ॥ २८८ ॥ जायानां राजपुत्रीणां, तैः सहस्रैः समन्वितः । सहस्रैर्जानपदीनां स्त्रीणां तावद्भिरन्वितः ॥ २८९ ॥ द्वात्रिंशतो जनपदसहस्राणामधीश्वरः । द्वासप्ततेः पुरवरसहस्राणां च शासिता ॥ २९० ॥ एकसहस्रोनद्रोणमुखलक्षस्य चाऽधिपः । पत्तनाष्टचत्वारिंशत्सहस्राणामधीश्वरः ॥ २९९ ॥ कर्बटानां मडम्बानां चतुर्विशिसहस्रपः । चतुर्दशसहस्याश्च सम्बाधानामपीश्वरः ॥ २९२ ॥ खेटकानां सहस्राणि षोडशाऽपि च रक्षिता । तथाऽऽकरसहस्राणां विंशतेरेक ईशिता ॥ २९३ ॥ पञ्चाशतः कुराज्यानामेकोनायाश्च नायकः । अन्तरोदकषट्पञ्चाशतश्च परिपालकः ॥ २९४ ॥ प्राप्तः षण्णवतिग्रामकोटीनां स्वामितां च ताम् । पत्तीनां षण्णवत्या च, कोटिभिः परिवारितः ॥ २९५ ॥ कुञ्जराणां वाजिनां च रथानां च पृथक् पृथक् । लक्षाभिश्चतुरशीत्या, छादितावनिमण्डलः ॥ २९६ ॥ ततो निववृते चक्री, चक्ररत्नपथानुगः । ऋद्ध्या महत्या सम्पूर्णः, पोतो द्वीपान्तरादिव ॥ २९७ ॥ ॥ दशभिः कुलकम् ॥ ग्रामेशैर्दुर्गपालैश्च, मण्डलेशैश्च वर्त्मनि । क्रियमाणोचितार्घ श्रीर्द्वितीयाचन्द्रमा इव ॥ २९८ ॥ प्रसारिभिरभिव्योम, पुरतः सैन्यरेणुभिः । शस्यमानागमो दूराद्, वर्धापकनरैरिव ॥ २९९ ॥ हेषितैबृंहितैर्बन्दिघोषैस्तूर्यारवैरपि । स्पर्धयेव प्रसृमरैर्दिशो बधिरयन्निव ॥ ३०० ॥ १ द्वात्रिंशता । २ अन्तरद्वीपः । FREDERERERERERERERERERERERI द्वितीयं पर्व चतुर्थः सर्गः अजितसगर चरितम् । सगरस्य दिग्विजयः । ॥ १४९ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy