SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व चतुर्थः सर्गः ॥१४७॥ अजितसगरचरितम् । 28282828282828282828282828 हिमाचलकुमारस्य, चक्रेऽष्टाह्निकोत्सवम् । ऋद्धया महत्या सगरः, पूर्णदिग्जयसङ्गरः ॥ २५८ ॥ मार्गेणोत्तरपूर्वेण, चक्ररत्नानुगस्ततः । गङ्गादेवीभवनाभिमुखं सुखमगानृपः ॥ २५९ ॥ निदधे शिबिरं गङ्गासद्मनोऽनतिदूरतः । विदधेऽष्टमभक्तं च, गङ्गामुद्दिश्य भूपतिः ॥२६० ॥ सिन्धुदेवीव गङ्गाऽपि, विज्ञायाऽऽसनकम्पतः । उपतस्थेऽन्तरिक्षस्थाऽष्टमान्ते चक्रवर्तिनम् ॥ २६१॥ सहस्रं रत्नकुम्भानामष्टोत्तरमदत्त च । स्वर्ण-माणिक्यचित्रं च, रत्नसिंहासनद्वयम् ॥ २६२ ॥ विसृज्य गङ्गां सगरो, विदधेऽष्टमपारणम् । अष्टाह्निकोत्सवं चाऽस्याः, प्रीतये प्रीतमानसः ॥ २६३ ॥ चक्रादिष्टेन मार्गेण, दिशा दक्षिणया ततः । सोऽखण्डविक्रमः खण्डप्रपाताभिमुखं ययौ ॥२६४ ॥ आरात् खण्डप्रपातायाः, स्कन्धावारं न्यधत्त सः । नाट्यमालकमुद्दिश्याऽष्टमभक्तं चकार च ॥ २६५ ॥ अष्टमान्ते नाट्यमालो, विज्ञायाऽऽसनकम्पतः । सोपायन उपागच्छद्, ग्रामेश इव भूपतिम् ॥ २६६ ॥ नानाविधानलङ्कारान्, स ददौ चक्रवर्तिनः । प्रत्यपद्यत सेवां च, विनीतो मण्डलेशवत् ॥ २६७॥ विसृज्य तं च सगरः, पारणानन्तरं मुदा । अष्टाह्निकां तस्य चक्रे, कृतप्रतिकृतोपमाम् ॥ २६८ ॥ अथ चक्रधरादेशात्, सेनानीरर्धसेनया । सिन्धुनिष्कुटवद् गाङ्ग, प्राग्निष्कुटमसाधयत् ॥ २६९ ॥ वैताढ्यपर्वतश्रेणिद्वयविद्याधरानथ । पर्वतीयानिव नृपान्, सगरस्तरसाऽजयत् ॥ २७० ॥ रत्नालङ्कार-वासांसि, हस्तिनस्तुरगांश्च ते । चक्रनाथस्य ददिरे, सेवां च प्रतिपेदिरे ॥ २७१ ॥ विद्याधरान् धराधीशः, सत्कृत्य विससर्ज तान् । तुष्यन्ति हि महीयांसः, सेवामय्या गिराऽपि हि ॥ २७२ ॥ १ प्रतिज्ञा। 28282828282828282828282828 सगरस्य दिग्विजयः ॥१४७॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy