SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ १४० ॥ FREREREREREDERERERERERERERE अस्त्रवेदः शरीरीव, सर्वायुधविचक्षणः । कृतस्नानः कृतप्रायश्चित्त-कौतुकमङ्गलः ॥ १५८ ॥ सितपक्ष इव स्वल्पनक्षत्रमणिभूषणः । शरासनधरो धीरः, सेन्द्रचाप इवाम्बुदः ॥ १५९ ॥ सविद्रुमवितानोऽब्धिरिव चर्माख्यरत्नभृत् । सरोवत् पुण्डरीकेणोद्दण्डेनोपरि शोभितः ॥ १६० ॥ भांश्चामराभां श्रीखण्डस्थासकाभ्यामिवांसयोः । तूर्यनादैर्नादयन् द्यां स्तनितैरिव वारिदः ॥ १६१ ॥ सैन्येन चतुरङ्गेण, सेनानीः परिवारितः । आरुह्येभवरं सिन्धुप्रवाहाभ्यर्णमाययौ ॥ १६२ ॥ ॥ अष्टभिः कुलकम् ॥ अथ पस्पर्श सेनानीश्चर्मरत्नं स्वपाणिना । तदन्तः सिन्धु ववृधे, नावाकारं बभूव च ॥ १६३ ॥ नोत्तर तां सिन्धुं सह चम्वा चमूपतिः । अपारमिव संसारं, योगीन्द्रो योगलीलया ॥ १६४ ॥ सिन्धुतीरादथ स्तम्भादिव मत्तमतङ्गजः । प्रससार महासारोऽस्खलितं पृतनापतिः ॥ १६५ ॥ सिंहलकान् बर्बरकांष्टङ्कणानितरानपि । द्वीपं च यवनद्वीपमाचक्राम चमूपतिः ॥ १६६ ॥ कालमुखान्जोनकांश्च, तथा वैताढ्यसंश्रिताः । नानाविधाम्लेच्छजातीः, स स्वच्छन्दमदण्डयत् ॥ १६७ ॥ समस्तदेशप्रवरं, कच्छदेशं च लीलया । महोक्ष इव सेनानीरुपदुद्राव विक्रमी ॥ १६८ ॥ तदन्तात् प्रतिनिवृत्य, तस्यैवोर्वीतले समे । अवतस्थे चमूनाथोऽम्भः क्रीडोत्तीर्णहस्तिवत् ॥ १६९ ॥ म्लेच्छा मडम्ब-नगर-ग्रामादीनामधीश्वराः । तं तत्रेयुः सर्वतोऽपि, पाशाकृष्टा इव द्रुतम् ॥ १७० ॥ भूषणानि विचित्राणि रत्नानि वसनानि च । रजतं च सुवर्णं च, तुरङ्गान् कुञ्जरानपि ॥ १७१ ॥ १ धनुर्वेदः । २ शुक्लपक्षः । ३ शोभमानः । ४ सेनापतिः । 'REDEREREREREREREREDERERERKI द्वितीयं पर्व चतुर्थः सर्गः अजित सगर चरितम् । सगरस्य दिग्विजयः । ॥ १४० ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy