SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ १२० ॥ FREDERERERERERERERERERERERE एवं विश्वजनीनेन, तीर्थनाथेन निर्ममे । त्रिजगत्कुमुदानन्दकौमुदी धर्मदेशना ॥ ८११ ॥ श्रुत्वा च देशनां भर्तुः प्रतिबुद्धाः सहस्रशः । नरा नार्यश्च जगृहुर्दीक्षां मोक्षैकमातरम् ॥ ८१२ ॥ तदानीं च सुमित्रोऽपि, पिता सगरचक्रिणः । पुरा भावयतिर्दीक्षामाददे स्वामिनोऽन्तिके ॥ ८१३ ॥ ततश्च पञ्चनवतेर्गणभृन्नामकर्मणाम् । संयतानां सिंहसेनप्रभृतीनां सुमेधसाम् ॥ ८१४ ॥ उत्पत्ति-विगम- ध्रौव्यरूपामूचे पदत्रयीम् । सर्वागमव्याकरणप्रत्याहारोपमां प्रभुः ।। ८१५ ॥ तत्त्रिपद्यनुसारेण, द्वादशाङ्गी सपूर्विकाम् । रेखानुसारेणाऽऽलेख्यमिव तेऽरचयन्नथ ॥ ८१६ ॥ चूर्णपूर्णमथ स्थालमादायोत्थाय वासवः । स्वामिनः पादपद्मान्ते, तस्थौ सुरगणावृतः ॥ ८१७ ॥ अथोत्थाय गणभृतां, चूर्णं मूर्धसु निक्षिपन् । क्रमेण सूत्रेणाऽर्थेन, तथा तदुभयेन च । ८१८ ॥ द्रव्यैर्गुणैः पर्ययैश्च, नयैरपि जगत्पतिः । ददावनुयोगानुज्ञां गणानुज्ञामपि स्वयम् ॥ ८१९ ॥ उपरिष्टाद् गणभृतां, वासक्षेपं दिवौकसः । नरा नार्यश्च विदधुर्दुन्दुभिध्वानपूर्वकम् ॥ ८२० ॥ पीयूषनिः स्यन्दमिव, रचिताञ्जलिसम्पुटाः । स्वामिवाचं प्रतीच्छन्तस्तस्थुर्गणधरा अपि ॥ ८२१ ॥ भेजे सिंहासनं पूर्वाभिमुखः पूर्ववत् पुनः । अनुशिष्टिमयीं तेभ्यो, देशनां विदधे विभुः ॥ ८२२ ॥ अत्रान्तरे च प्रथमा, पर्यपूर्यत पौरुषी । पारयामास भगवानपि तां धर्मदेशनाम् ॥ ८२३ ॥ तदा विशालस्थालस्थश्चतुःप्रस्थप्रमाणकः । आपूर्ण: शालिभिः शुद्धैः, पद्मसौरभशालिभिः ॥ ८२४॥ उपसंवर्गितामोदो, दिविषद्गन्धमुष्टिभिः । कारितः सगरराजेनोत्क्षिप्तो वरपूरुषैः ॥ ८२५ ॥ १ विश्वहितकारिणा । २ सर्वागमानां स्पष्टीकरणे प्रत्याहारसदृशीम् । ३ सूत्रार्थाभ्याम् । ४ शिक्षामयीम् । ५ मिश्रित आमोदो यस्मिन्सः । KAYDEDEREREDEREREREREDEREREI द्वितीयं पर्व तृतीयः सर्गः अजित सगर चरितम् । गणभृतां स्थापना । ॥ १२० ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy