SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व तृतीयः सर्गः अजितसगरचरितम्। ॥९२॥ 8282828282828282828282828282 तथोपाये प्रवृत्तस्त्वं, क्रियासमभिहारतः । यथाऽनिच्छन्नुपेयस्य, परां श्रियमशिश्रियः ॥३९७ ॥ मैत्रीपवित्रपात्राय, मुदितामोदशालिने । कृपोपेक्षाप्रतीक्ष्याय, तुभ्यं योगात्मने नमः ॥ ३९८ ॥ इतश्च समवसृतं, जिनेन्द्रमजितप्रभुम् । उद्यानपालका गत्वाऽऽचख्युः सगरचक्रिणे ॥ ३९९ ॥ प्रभोः समवसरणोदन्तेन मुमुदे तथा । चक्रवर्ती चक्ररत्नोत्पत्तावपि यथा न हि ॥ ४००॥ तेभ्यश्च तपनीयस्य, सार्धा द्वादशकोटयः । भूभुजा परितुष्टेन, ददिरे पारितोषिके ॥ ४०१॥ ततः स्नात्वा कृतप्रायश्चित्त-कौतुकमङ्गलः । उदाराकाररत्नालङ्कारस्त्रिदशराडिव ॥ ४०२॥ दृढिकृतस्कन्धहारः, कराभ्यां नर्तयन् सृणिम् । सगरः कुञ्जरवरमासन्यारोहदग्रिमे ॥४०३ ॥॥युग्मम् ॥ कुम्भिकुम्भस्थलेनोच्चेनाऽऽनाभि च्छन्नविग्रहः ।अर्कोदित इवाऽऽदित्यो, दिद्युते मेदिनीपतिः॥४०४॥ दिग्मुखप्रसृतैः शङ्ख-दुन्दुभिप्रभृतिस्वनैः । एयुः सैन्याः सुघोषादिघण्टाघोषैरिवाऽमराः ॥ ४०५ ॥ राज्ञां मुकुटबद्धानां, सहस्रैः परिवारितः । विरेजे वैक्रियानेकरूपधारीव चक्रभृत् ॥ ४०६॥ मूर्धाभिषिक्तमूर्धन्यो, मूर्ध्नि च्छत्रेण पाण्डुना। अशोभिष्ट नभोगङ्गावर्त्तभ्रमविधायिना ॥ ४०७॥ पार्श्वतः सञ्चरिष्णुभ्यां, चामराभ्यामरोचत । सगरश्चन्द्रबिम्बाभ्यामिव काञ्चनपर्वतः ॥ ४०८ ॥ वाजिभिः स्वर्णसन्नाहैः, स्वर्णपक्षेः खगैरिव । रथैस्तुङ्गध्वजस्तम्भैः, पोतैरिव सकूपकैः ॥४०९॥ क्षरन्मदैर्गजवरैः, शैलैरिव सनिर्झरैः । उदस्त्रैः पत्तिभिः सिन्धुतरङ्गैरिव सोरगैः॥ ४१०॥ १ प्रमोदभावनामोदशोभिताय । २ कृपा-माध्यस्थ्ययोः मुख्याय । ३ सुवर्णस्य । ४ अङ्कुशम्।५ मूर्धाभिषिक्ता राजानस्तेषां मुख्यः । ६ प्रवहणैः । ७ ससपैः। 8282828282828282828282828282 प्रभोर्वन्दनार्थं सगरस्य गमनम्। ॥९२॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy