SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ द्वितीयं पर्व त्रिषष्टिशलाकापुरुषचरिते तृतीयः सर्गः अजितसगरचरितम् । ॥८७॥ 28282828282828282828282828 ललाटन्तपतपनातपे ग्रीष्मऋतावपि । नाऽऽचकाङ्क्ष तरुच्छायामपि देहेऽपि निःस्पृहः ॥ ३२४ ॥ पतत्तुहिनसम्भारप्लुष्यमाणतरावपि । हेमन्तौ प्रभु३च्छद्, दीप्तपित्त इवाऽऽतपम् ॥ ३२५ ॥ झझानिलोल्बणैर्धारासारैरपि पयोमुचाम् । मतङ्गजो वारिचर, इव नोद्विविजे विभुः ॥३२६ ॥ परीषहानेवमन्यानपि सेहे सुदुःसहान् । सर्वंसहो धरणिवद्, धरणीतिलकः प्रभुः ॥ ३२७ ॥ उग्रैस्तपोभिर्विधैर्विविधाभिग्रहैरपि । परीषहसहोऽब्दानि, द्वादशाऽलङ्घयत् प्रभुः ॥ ३२८॥ खड्गीव स्वाम्यनासीनः, खड्गिशृङ्गमिवैककः । सुमेरुरिव निष्कम्पः, पञ्चानन इवाऽभयः ॥ ३२९ ॥ वायुरिवाऽप्रतिबद्धो, भुजङ्गम इवैकदृक् । वह्निना काञ्चनमिव, तपसाऽतिशयानरुक् ॥३३० ॥ वृतिभिर्वरशाखीव, तिसृभिर्गुप्तिभिर्वृतः । समितीः पञ्च बिभ्राणो, धन्वी हस्त (स्ते) शरानिव ॥३३१॥ आज्ञा-ऽपाय-विपाकानां, संस्थानस्य च चिन्तनात् ।ध्यायंश्चतुर्विधं ध्येयं, ध्येयरूपः स्वयं विभुः ॥३३२॥ प्रतिग्राम प्रतिपुरं, प्रत्यरण्यं च पर्यटन् । समाययावुपवनं, सहस्राम्रवणं क्रमात् ॥ ३३३ ॥ ॥पञ्चभिः कुलकम् ॥ तत्र च्छत्रायमाणस्य, सप्तच्छदतरोस्तले । तत्प्रकाण्डमिवाऽकम्पस्तस्थौ प्रतिमया प्रभुः ॥ ३३४ ॥ अप्रमत्तसंयताख्यगुणस्थानात् तदा विभुः । अपूर्वकरणं भेजे, गुणस्थानकमष्टमम् ॥३३५ ॥ श्रौतादाद् व्रजन् शब्द, शब्दादर्थं व्रजन् ययौ । नानात्वश्रुतवीचारं, शुक्लध्यानमथाऽऽदिमम् ॥ ३३६ ॥ अनिवृत्तिबादराख्यं, परिणामानिवृत्तिकृत् । आरुरोह गुणस्थानं, ततश्च नवमं विभुः ॥३३७॥ १ सूर्यः । २ हस्ती। ३ वृक्षकाण्डम् । 928R88888888888888888888888 अजितजिनस्योग्रचर्या । ॥८७॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy