SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ ७९ ॥ 'DE DE DEREREREREREREDERE D G D K काश्चन प्रस्खलन्तीषु, सदा सहचरीष्वपि । काश्चिद् वक्षःस्थलास्फालाद्धारेषु प्रत्रुटत्स्वपि ॥ २१५ ॥ अंसाद् विस्रंसमानेषूत्तरीयेष्वपि काश्चन । काश्चिच्छून्यीभवद्द्वारेष्वपि गेहाङ्गणेषु च ॥ २१६ ॥ काश्चिद् देशान्तरादिष्टातिथिष्वभ्यागतेष्वपि । पुत्रजन्मोत्सवे सद्यः, समुत्पन्नेऽपि काश्चन ॥ २१७ ॥ काश्चित् तत्कालमुद्वाहलग्नकालेऽप्युपस्थिते । काश्चन स्नानोपनतेष्वपि स्नानीयवस्तुषु ॥ २९८ ॥ गृहीताचमनाः काश्चिदर्धभुक्तेऽपि भोजने । काश्चिदर्धोपयुक्तेऽपि, कालप्राप्ते विलेपने ॥ २१९ ॥ कुण्डलादिष्वलङ्कारेष्वर्धामुक्तेषु काश्चन । स्वामिनिष्क्रमणोदन्तेऽर्धश्रुतेऽपि हि काश्चन ॥ २२० ॥ धम्मिल्लान्तः काश्चिदर्धबद्धे कुसुमदामनि । अधिभालस्थलं काश्चित्, तिलकेऽर्धकृतेऽपि हि ॥ २२१ ॥ गृहकर्तव्यमन्त्रेषु, काश्चिदर्धोदितेष्वपि । काश्चिदर्धकृतेष्वेव नित्यनैमित्तिकेष्वपि ॥ २२२ ॥ सम्भ्रमात् पादचारेण, यानेषूपस्थितेष्वपि । उपेयुः स्वामिनं द्रष्टुं, पौर्यो भक्तिपवित्रिताः ॥ २२३ ॥ ॥ नवभिः कुलकम् ॥ क्षणमग्रे क्षणं पृष्ठे, क्षणं चोभयपार्श्वयोः । यूथपस्येव कलभाः, पौरास्तस्थुर्जगत्प्रभोः ॥ २२४ ॥ अट्टानारुरुहुः केचित्, कुट्टिमानि च केचन । प्रासादाग्राणि केचित् तु, मञ्चाग्राणि च केचन ॥ २२५ ॥ केऽपि प्राकारश्रृङ्गाणि, केऽपि द्रुशिखराणि च । केऽप्युच्चैः सिन्धुरस्कन्धान्, स्वामिदर्शनकाम्यया ॥ २२६ ॥ ॥ युग्मम् ॥ अञ्चलांश्चालयामासुः, काश्चिच्चामरलीलया । लाजान् प्रचिक्षिपुः काश्चिद्धर्मबीजमिवाऽवनौ ॥ २२७ ॥ १ अर्धपरिहितेषु । २ कबरीमध्ये ३ गृहकार्यविचारेषु । ४ गजस्येव । ५ गजस्कन्धान् । 'RERERERERERERERERERERERERY द्वितीयं पर्व तृतीयः सर्गः अजित सगर चरितम् । अजितजिनप्रव्रज्यामहोत्सवः । ॥ ७९ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy