SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ ७६ ॥ REDERER G D G D KRE DE DE DE DE RE अपरेष्वपि तूर्येषु, पूर्यमाणेषु केषुचित् । केषुचित् ताड्यमानेष्वास्फाल्यमानेषु केषुचित् ॥ १७२ ॥ गन्धर्वेषु च गायत्सु, शुद्धगीतानि सुस्वरम् । आशिषो भाषमाणेषु, ब्रह्मवैतालिकादिषु ॥ १७३ ॥ सौवस्तिकप्राग्रहरैरजितस्वामिशासनात् । राज्याभिषेको विधिवत्, सगरस्य व्यधीयत ॥ १७४ ॥ ॥ नवभिः कुलकम् ॥ प्रणेमुःसरं सर्वे, नृप - सामन्त- मन्त्रिणः । उदयन्तमिवाऽऽदित्यमुद्यताञ्जलयो जनाः ॥ १७५ ॥ उपेत्य पौरप्रवरा, वरोपायनपाणयः । भक्त्या तर्मुर्वीनेतारं, नवमिन्दुमिवाऽनमन् ॥ १७६ ॥ स्वामिना न वयं त्यक्ता, मूर्त्यन्तरमिदं निजम् । नेतारं कुर्वताऽस्माकमित्यूचुर्मुदिताः प्रजाः ॥ १७७ ॥ भगवानजितेशोऽपि प्रारेभेऽथ कृपार्णवः । प्रदातुं वार्षिकं दानं, वर्षाब्द इव वर्षितुम् ॥ १७८ ॥ आज्ञप्ता वासवेनाऽथ, प्रेरिता धनदेन च । तिर्यग्जृम्भकनामानस्तत्रोपेयुर्दिवौकसः ॥ १७९ ॥ अथ भ्रष्टानि नष्टानि, प्रक्षीणस्वामिकानि च । परितो नष्टकेतूनि, प्रणष्टाधिपतीनि च ॥ १८० ॥ गिरिकन्दरवर्त्तीनि, श्मशानस्थानगानि च । भवनान्तरगुप्तानि, तत्राऽऽजह्रुर्धनानि ते ॥ १८९ ॥ ॥ युग्मम् ॥ शृङ्गाटेषु चतुष्केषु, चत्वरेषु त्रिकेषु च । प्रवेश-निर्गमोर्व्यां च, पुञ्जीचक्रुश्च तानि ते ॥ १८२ ॥ त्रिके त्रिके पथि पथि, चत्वरे चत्वरेऽपि च । एतद् गृह्णीत वस्वेवं, घोषणां स्वाम्यकारयत् ॥ १८३ ॥ यो यद् ययाचे तत् तस्मै ददौ वसु जगत्पतिः । सूर्योदयात् समारभ्य, निषण्णो भोजनावधि ॥ १८४ ॥ कोटिरेका हिरण्यस्य, लक्षैः समधिकाऽष्टभिः । अर्थिभ्यो विश्वनाथेन दीयते स्म दिने दिने ॥ १८५ ॥ १ पुरोहितश्रेष्ठैः । २ राजानम् । ३ नष्टस्वामिकानि । ४ नष्टचिह्नानि । KAKAKAKAYDEDEDEDEDEDEDERLAN द्वितीयं पर्व तृतीय: सर्गः अजित सगर चरितम् । अजितजिनस्य वार्षिकं दानम् ॥ ७६ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy