SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व षष्ठः सर्ग. श्रीऋषभस्वामिचरितम् । ।।३२१ ॥ अरमल्यन्तरे भावी, सप्तमं नरकं गमी । वाराणस्यां पुनः पद्मो, ज्वाला-पद्मोत्तरात्मजः ।।३३२ ।। त्रिंशद्वर्षसहस्रायुर्धनुर्विंशतिमुच्छ्रितः । काम्पिल्ये हरिषेणस्तु, मेरा-महाहरिप्रसूः ।। ३३३ ।। दशवर्षसहस्रायुः, पञ्चदशधनून्नतिः । मुनिनम्योर्विहरतोङवप्येतौ भविष्यतः ।। ३३४ ।। वप्रा-विजयभू राजगृहे द्वादशकार्मुकः । जर्यस्त्र्यब्दसहस्रायुर्नमिनेमिजिनान्तरे ॥३३५ ।। काम्पिल्ये ब्रह्मदत्तस्तु, चुलनी-ब्रह्मनन्दनः । सप्तवर्षशतायुष्कः, सप्तधन्वसमुन्नतिः ।। ३३६ ।। श्रीनेमिनाथश्रीपार्श्वनाथतीर्थान्तरे त्वसौ । रौद्रध्यानपरो गामी, सप्तमी नरकावनीम् ।। ३३७ ।। तत्र प्रभुरपृथेऽपीत्याख्यच्चयर्द्धविक्रमाः । त्रिखण्डावनिभोक्तारो, वासुदेवा नवाऽसिताः ।।३३८ ।। अष्टमः काश्यपकुलस्तेषु शेषास्तु गौतमाः । सापत्ना भ्रातरस्तेषां, बलदेवाः सिता नव ॥३३९ ।। त्रिपृष्ठः केशवस्तत्र, नगरे पोतनाह्वये । प्रजापति-मृगावत्योः, सुतोऽशीतिधनुन्नतिः ।। ३४० ॥ महीं विहरमाणे तु, श्रेयांसजिनपुङ्गवे । चतुरशीत्यब्दलक्षायुरन्त्यं नरकं गमी ।। ३४१ ।। द्वारवत्यां द्विपृष्ठस्तु, धनुःसप्ततिमुन्नतः । भुवं विहरमाणे तु, वासुपूज्यजिनेश्वरे ॥३४२ ।। द्वासप्ततिवर्षलक्षायुः पद्मा-ब्रह्मनन्दनः । गमिष्यति च सोऽवश्य, षष्ठीं नरकमेदिनीम् ।।३४३ ॥ द्वारवत्यां स्वयम्भूस्तु, धनुःषष्टिसमुन्नतः । षष्टिवत्सरलक्षायुर्विमलस्वामिवन्दकः ।। ३४४ ।। भद्रराजस्य पृथिवीदेव्याश्चैष तनूरुहः । गमिष्यति च पूर्णायुः, षष्ठिकां नरकावनीम् ।। ३४५ ॥ १ पद्माख्यश्चक्री । * नम्यन्तराले तु, २ जयाख्यश्चक्री । ३ कृष्णवर्णाः । ४ गौतमकुलाः । वासुदेवाः । ॥३२१ ।।
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy