SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ।। २९८ ।। षष्ठः सर्गः । इतश्च स्वामिनः शिष्यो, मरीचिर्भरतात्मजः । एकादशानामङ्गानामध्येता निजनामवत् ॥ १ ॥ सहितः श्रामणगुणैः सुकुमारो निसर्गतः । कलभो यूथपेनेव, विहरन् स्वामिना समम् ॥ २ ॥ ग्रीष्मे मध्यन्दिने भीष्मैर्दिवाकरकरोत्करैः । नाडीन्धमैरिवाऽऽध्मातेष्वभितो मार्गपांशुषु ॥ ३ ॥ अदृश्याभिर्हुतवहज्वालाभिरिव सर्वतः । महावात्याभिरुष्णाभिः, खिलीभूतेषु वर्त्मसु ॥ ४ ॥ आपादमस्तकोद्भूतस्वेदधारानिरन्तरे । अभितप्तेषदाद्र्धः सधीचि निजेवर्ष्मणि ॥ ५ ॥ पयः संसिक्तसंशुष्कचर्मगन्धवदुद्धते । प्रस्वेदक्लिन्नवस्त्राङ्गमलगन्धे च दुःसहे ॥ ६ ॥ पादयोर्दह्यमानश्चाऽवतप्ते नकुलस्थितम् । नाट्यंस्तृष्णयाऽऽक्रान्तश्चेतसैवमचिन्तयत् ॥ ७ ॥ ॥ सप्तभिः कुलकम् ॥ केवलदर्शनज्ञानार्केन्दुमेरुमहीभृतः । ऋषभस्वामिनस्तावदस्मि पौत्रो जगद्गुरोः ॥ ८ ॥ अखण्डषट्खण्डमहीमण्डलाखण्डलस्य च । विवेकैकनिधेस्तस्य पुत्रोऽस्मि भरतेशितुः ॥ ९॥ चतुर्विधस्य सङ्घस्याऽन्वैक्षं च स्वामिनोऽन्तिके । प्राव्राजिषं पञ्चमहाव्रतोच्चारणपूर्वकम् ॥ १० ॥ एवं सति स्थानतोऽस्माल्लज्जयाऽर्गलितस्य मे । न युज्यते गृहे गन्तुं, वीरस्येव रणाजिरात् ॥ ११ ॥ श्रामणं गुणभारं च, महाद्रिमिव दुर्वहम् । मुहूर्त्तमपि चोद्वोढुमलमस्मि न साम्प्रतम् ॥ १२ ॥ १ अग्नितप्तेषदार्द्रकाष्ठसमाने । २ स्वशरीरे ३ प्रत्यक्षम् । प्रथमं पर्व षष्ठः सर्गः श्रीऋषभ स्वामिचरितम् । मरीचेर्वेष परिवर्तनम् । ।। २९८ ।।
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy