SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ।। २७० ।। रेजे तेनाऽङ्गलग्नेन, दिव्येन मणिवर्मणा । माणिक्यपूजया देवप्रतिमेव महीपतिः ॥ ४०७ ॥ स्वर्णरत्नशिरस्त्राणं, मध्योच्चं छत्रवर्तुलम् । द्वैतीयीकमिवोष्णीषं, बभार भरतेश्वरः ।। ४०८ ।। नागराजाविवाऽत्यन्ततीक्ष्णनाराचदन्तुरौ । पृष्ठे निषौ बिभराञ्चक्रे विश्वम्भराधवः ।। ४०९ ।। उपाददे ततो वैरिजामं वामेन पाणिना । कालपृष्ठं महाचापं, वज्रीव ऋजुरोहितम् ॥ ४१० ॥ अन्यतेजस्विनां तेजो, ग्रसमानो ग्रहेन्द्रवत् । लीलास्थिरपदन्यासं, क्रामन् भद्रगजेन्द्रवत् ॥ ४११ ।। तृणवद् गणयन्नग्रे, प्रतिवीरान् मृगेन्द्रवत् । दृष्ट्याऽपि दुर्विषहया, भीषणः पन्नगेन्द्रवत् ।। ४१२ ।। बन्दिवृन्दारकैरुच्चैः, स्तूयमानो महेन्द्रवत् । नरेन्द्रो रणनिस्तन्द्रमारुरोह महागजम् ॥। ४१३ ॥ ॥ त्रिभिर्विशेषकम् ॥ मागधेभ्यः प्रयच्छन्तौ द्रविणं कल्पशाखिवत् । पश्यन्तावागतान् सैन्यान्, सहस्रेक्षणवन्निजान् ॥ ४१४ ॥ बिभ्राणौ बाणमेकं च, मृणालं राजहंसवत् । कुर्वाणौ रणवार्त्ता च, रतवार्तां विलासिवत् ।। ४१५ ।। महोत्साहो महौजस्कौ, नभोमध्यं दिनेशवत् । उभावप्यार्षभी स्वस्वसैन्यमध्यमथेयतुः ।। ४१६ ।। ।। त्रिभिर्विशेषकम् ।। भरतो बाहुबलिश्च, निजसैन्यान्तरस्थितः । बभार जम्बूद्वीपान्तर्वर्त्तिमेरुगिरिश्रियम् ॥ ४१७ ।। तयोश्च सेनयोरन्तर्वर्तिनी भूरलक्ष्यत । विदेहक्षेत्रभूमीव, मध्ये निषधनीलयोः ।। ४१८ ।। उभे अपि तयोः सेने, पङ्कीभूयाऽभ्यसर्पताम् । कल्पान्तसमये पूर्वापरवारिनिधी इव ।। ४१९ ।। १ शिरोवेष्टनम् । २ पृथ्वीपतिः । ३ वैरिप्रतिकूलम् । ४ पूर्वपश्चिमसमुद्रौ । प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभस्वामि चरितम् । भरत बाहुबलि युद्धम् । ।। २७० ।।
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy