SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् । ॥२१४ ॥ गत्वा ऋषभकूटाद्रिमृषभस्वामिभूस्ततः । जघान रथशीर्षेण, त्रिर्दन्तेनेव दन्तिराट् ॥ ४७७ ॥ स्थापयित्वा रथं तत्र, पृथिवीपतिरग्रहीत् । पाणिना काकिणीरलं, रश्मिकोशमिवाऽर्यमा ॥ ४७८ ॥ अवसर्पिण्यां तृतीयारप्रान्ते भरतोऽस्म्यहम् । चक्रीति वर्णान् काकिण्या, तत्पूर्वकटकेऽलिखत् ॥ ४७९ ।। ततो व्यावृत्य सवृत्तः, स्कन्धावारं निजं ययौ । चकाराऽष्टमभक्तान्तपारणं व महीपतिः ।। ४८०॥ ततश्च क्षुद्रहिमवत्कुमारस्य नरेश्वरः । अष्टाह्निकोत्सवं चक्रेऽनुरुपं चक्रिसम्पदः ।। ४८१ ।। गङ्गासिन्धुमहानद्योरन्तरालमहीतले । अमाद्भिरिव वियत्युत्प्लवमानस्तुरङ्गमैः ।। ४८२ ।। सैन्यभारपरिक्लान्तां, सेक्तुकामैरिवाऽवनिम् । प्रस्रवद्भिर्मदजलप्रवाहं गन्धसिन्धुरैः ।। ४८३ ।। उद्दामनेमिरेखाभिः, सीमन्तालङ्कतामिव । विदधानैर्वसुमती, स्यन्दिभिः स्यन्दनोत्तमैः ।। ४८४ ।। पत्तिभिः कोटिसङ्ख्यैश्च, प्रसरद्भिर्महीतले । दर्शयद्भिर्नराद्वैतमिवाऽद्वैतपराक्रमैः ।। ४८५ ॥ अश्ववारानुगो जात्यमतङ्गज इव वजन् । चक्ररत्नानुगश्चक्री, प्राप वैताठ्यपर्वतम् ।। ४८६ ।। शिबिरं शबरीगीताविंगीतादिजिनस्तवे । उदग्नितम्बे तस्याऽनेनरेन्द्रः सन्यवेशयत् ।। ४८७ ।। ततो नमिविनम्याख्यौ, विद्याधरपती प्रति । प्रजिघाय विशामीशो, मार्गणं दण्डमार्गणम् ॥ ४८८ ॥ आलोक्य मार्गणं तं च, विद्याधरपती वरौ । कोपाटोपसमाविष्टावित्यमन्त्रयतां मिथः ॥ ४८९ ।। द्वीपस्य जम्बूद्वीपस्य, वर्षेऽत्र भरतेऽधुना । उत्पेदे भरतो हन्त !, प्रथमश्चक्रवर्त्ययम् ।। ४९० ॥ असावृषभकूटाद्रौ, चन्द्रबिम्ब इव स्वयम् । नामधेयं लिखित्वा स्वं, वलितोऽत्र समाययौ ।। ४९१ ॥ १ नरमयम् । २ अनिन्द्यः । ३ प्रेरयामास । ४ दण्डयाचकम् । भरतस्य दिग्विजयः । ॥२१४ ।।
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy