SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् । ।। २०२ ॥ ASAR चतुरङ्गचमूचक्रयुक्तश्चक्रानुगस्ततः । प्रविवेश गुहाद्वार, केसरीव नृकेसरी ।। ३०४ ।। अष्टसुवर्णप्रमाणं, षट्तलं द्वादशास्रिकम् । समतलं मानोन्मानप्रमाणयोगसंयुतम् ।। ३०५ ।। सर्वदाऽधिष्ठितं यक्षसहस्रेणाऽष्टकर्णिकम् । योजनानि द्वादशाऽन्धकारन्यक्कारकारणम् ।।३०६ ॥ अधिकरणीसंस्थानं, सूर्यचन्द्रानलप्रभम् । नृपतिः काकिणीरत्नं, चतुरडुलनाददे ॥३०७ ॥ ॥त्रिभिर्विशेषकम् ।। गोमूत्रिकाक्रमात तेन, स गुहापार्श्वयोर्द्वयोः । योजनान्ते योजनान्ते, मण्डलान्यालिखन् ययौ ।। ३०८ ॥ धनुःपञ्चशतायामान्येकैकमेकयोजनम् । उद्द्योतकारीण्येकोनपञ्चाशत् तानि जज्ञिरे ।।३०९ ।। तावत् स्थायीनि तान्यासन्, गुहा चोद्घाटितानना । यावज्जीवति कल्याणी, चक्रवर्ती महीतले ॥३१०॥ मण्डलानां प्रकाशेन, तेनाऽप्रस्खलिता चमूः । सञ्चचार सुखं चक्ररत्नानुगनृपानुगा ।। ३११ ॥ सा गुहा सञ्चरन्तीभिश्चमूभिश्चक्रवर्तिनः । असुरादिबलै रत्नप्रभामध्यमिवाऽऽबभौ ॥३१२ ॥ अन्तः सञ्चरता तेन, चमूचक्रेण सा गुहा । आसीदुद्दामनि?षा, मन्थानेनेव मन्थनी ।।३१३ ॥ रथैः सीमन्तितः सद्योऽश्वखुरैः क्षुण्णकर्करः । जज्ञे पुरीपथ इव, स खिलोऽपि गुहापथः ।। ३१४ ।। अन्तःस्थितेन सा तेन, सेनालोकेन कन्दरा । तिरश्चीनत्वमापन्ना, लोकनालिरिवाऽभवत् ॥३१५ ॥ मध्यभागे तमिस्रायाः, संव्यानरसने इव । नृपः प्रापदथोन्मना-निमग्ने नाम निम्नंगे ॥३१६ ।। याम्योदग्भरतक्षेत्रार्द्धाभ्यामागच्छतां नृणाम् । आज्ञालेखे इव कृते, ते नदीछंदतोऽद्रिणा ॥३१७ ।। १ द्वादशकोणकम् । २ मन्थनघटी ।३ सञ्चाररहितोऽपि । ४ अधवस्त्रमेखले । ५ नद्यौ । ६ नदीमिषेण । भरतस्य दिग्विजयः । ॥२०२ ॥ ASHRS505
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy