SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामिचरितम् । ॥ १२१ ॥ मिलल्लोकेक्षणश्रेणिजातजङ्गमतोरणः । तोरणद्वारि नन्वेष, जगत्त्रयवरो वरः ।। ८३७ ॥ ऊर्ध्वस्तिष्ठत्युत्तरीयाच्छादिताशेषविग्रहः । गङ्गातरङ्गान्तरितराजहंसयुवोपमः ।। ८३८ ।। वातेनोद्वान्ति पुष्पाणि, चन्दनं च विशुष्यति । तद्द्वारि सुन्दरि ! चिरं, वरं मा धर मा धर ।। ८३९ ।। देवस्त्रीभिर्गीयमानेषूच्चकैर्धवलेष्विति । अर्घ त्रिजगदाय, ददावथ वराय सा ।। ८४० ॥ ॥षभिः कुलकम् ॥ प्रारब्धधवलेवोच्चैः, क्वणद्भिर्भुजकङ्कणैः । मथा चुचुम्ब बिम्बौष्ठी, त्रिर्भालं त्रिजगत्पतेः ॥ ८४१ ॥ सरावसम्पुटं साग्नि, हिमकर्परलीलया । पदा सपादुकेनाऽथ, वामेनाऽदलयद् विभुः ।। ८४२ ॥ ततस्तयाऽर्घदायिन्या, कण्ठे कौसुम्भवाससा । प्रक्षिप्तेनाऽऽकृष्यमाणो, ययौ मातृगृहं प्रभुः ॥ ८४३ ॥ कन्देन मदनस्येव, मदनेनोपशोभितम् । वधूवरस्य हस्तेषु, हस्तसूत्रमबध्यत ।। ८४४ ॥ अग्रतो मातृदेवीनामथोच्चैः काञ्चनासने । आसाञ्चक्रे प्रभुर्मेरुशिलायामिव केसरी ।। ८४५ ।। शम्यश्वत्थत्वचौ पिष्टवा, हस्तालेपं ततः स्त्रियः । निदधुः कन्ययोः पाणौ, स्मरद्रोरिव दोहदम् ।। ८४६ ।। शुभलग्नोदये तूर्णमविहस्तस्ततः प्रभुः । हस्तालेपयुतौ हस्तौ, हस्ताभ्यामग्रहीत् तयोः ।। ८४७ ।। हस्तसम्पुटमध्यस्थहस्तालेपान्तरूमिकाम् । चिक्षेप तत्र सुत्रीमा, पल्वले शालिबीजवत् ॥ ८४८ ॥ ताभ्यामुभाभ्यामुभयहस्तात्ताभ्यां बभौ विभुः । शाखाद्वितयलग्नाभ्यां, लताभ्यामिव पादपः ।। ८४९ ॥ वधूवरदृशोऽन्योऽन्यं, तारामेलकपर्वणि । सरित्पतिसरित्तोयानीवाऽभिमुखमापतन् ।। ८५० ॥ ऋषभप्रभोः विवाहोत्सवः । ॥१२१॥ १ मन्थानेन । २ अव्याकुलः । ३ इन्द्रः ।
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy