SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ।। ९७ ।। आदिक्षदच्युतेन्द्रोऽथ, त्रिदशानाभियोगिकान् । जिनजन्माभिषेकोपकरणान्यानयन्त्विति ।। ४७५ ।। अथ किञ्चिदपक्रम्योत्तरपूर्वदिशि क्षणात् । ते वैक्रियसमुद्घातेनाकृष्योत्तमपुद्गलान् ।। ४७६ ।। सौवर्णान् राजतान् रत्नमयान् काञ्चनराजतान् । स्वर्णरत्नमयान् स्वर्णरूप्यरत्नमयानपि ।। ४७७ ।। रूप्यरत्नमयान् भौमान्, कलशान् पूजिताननान् । रम्यान् प्रत्येकमष्टथग्रसहस्रं ते विचक्रिरे ॥ ४७८ ॥ ॥ त्रिभिर्विशेषकम् ।। भृङ्गारान् दर्पणान् रत्नकरण्डान् सुप्रतिष्ठकान् । स्थालानि पात्रिकाश्चाऽपि पुष्पचङ्गेरिका अपि ।। ४७९ ।। प्रत्येकं कुम्भसङ्ख्यातांस्तद्वत्स्वर्णादिवस्तुजान् । तत्कालं ढौकयामासुरग्रे निष्पादितानिव ॥ ४८० ॥ ॥ सन्दानितकम् ॥ कलशांस्तानुपादाय, ते देवा आभियोगिकाः । क्षीरोदधावाददिरे, वारि वारिधरा इव ॥ ४८१ ।। तत्रागृह्णन् पुण्डरीकोत्पलकोकनदानि ते । तदम्भसामभिज्ञानमिव दर्शयितुं हरेः ।। ४८२ ।। उदधौ पुष्करोदेऽपि, जगृहुः पुष्कराणि ते । निपान इव पानीयहारिकाः कुम्भपाणयः ।। ४८३ ।। भरतैरवतादीनां, तीर्थेषु मागधादिषु । तेऽम्भो मृत्स्नां च जगृहु:, कर्तुं कुम्भानिवाऽधिकान् ॥ ४८४ ॥ गङ्गादिकानां च महानदीनामुदकानि ते । समुपाददिरे स्वैरं, शौल्किका इव वर्णिकाम् ।। ४८५ ।। ते क्षुद्रहिमवत्येत्यागृह्णन् न्यासीकृतानिव । सिद्धार्थपुष्पतुवरगन्धान् सर्वौषधीरपि ॥ ४८६ ॥ तत्र पद्माभिधहूदादम्भांस्यम्भोरुहाणि च । विमलानि सुगन्धीनि, जगृहु: पावनानि ते ।। ४८७ ।। १ कमलभेदाः । २ जलाशये । ३ जलग्राहिण्यः । प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभ स्वामिचरितम् । अच्युतेन्द्रविनिर्मित ऋषभजिन स्नात्रोत्सवः । ।। ९७ ।।
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy