SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ।। ८१ ॥ आलुलोके त्वया स्वप्ने, यच्च देवि! महाध्वजः । महावंशप्रतिष्ठः स्यात्, तत् ते धर्मध्वजोङ्गजः ॥२४१ ।। यच्च स्वप्ने पूर्णकुम्भो, भवत्याऽऽलोकि देवि ! तत् । सूनुः समग्रातिशयपूर्णपात्रं भविष्यति ॥ २४२ ।। प्रथमं पर्व यच्च पद्मसरो दृष्टं, तत् स्वामिनि ! तवाऽऽत्मजः । तापं संसारकान्तारपतितानां हरिष्यति ॥२४३ ।।।। द्वितीयः सरित्पतिर्यदालोकि, भवत्या तनयस्तव । अधृष्यश्चाभिगम्यश्च, तदवश्यं भविष्यति ।। २४४ ।। सर्गः विमानं देवि ! यद् दृष्टं, भवत्या भुवनाद्भुतम् । वैमानिकैरपि सुरैस्तत् ते सेविष्यते सुतः ।। २४५ ॥ श्रीऋषभ स्वामिरत्नपुञ्जः स्फुरत्कान्तिरीक्षामासे च यत् त्वया । तत्सर्वगुणरत्नानामाकरः स्यात् तवाऽऽत्मजः ।। २४६ ॥||| चरितम् । यज्वैलज्ज्वलनो दृष्य, वक्रमध्ये विशंस्त्वया । अन्यतेजस्विनां तेजस्तदपास्यति ते सुतः ।। २४७ ॥ चतुर्दशभिरप्येतैः, स्वप्नैः स्वामिनि ! सूच्यते । चतुर्दशरज्जुदघ्ने, लोके स्वामी तवाऽऽत्मजः ।।२४८ ।। इन्द्रैश्चतुर्दशइति स्वप्नार्थमाख्याय, मरुदेवीं प्रणम्य च । क्षणान्निजनिजस्थानान्यगमन्नमरेश्वराः ।। २४९ ॥ महस्वप्नफल कथनम् । स्वामिन्यपीन्द्रैः स्वप्नार्थव्याख्यानसुधयोक्षिता । वसुधेवाऽम्बुदैरद्भिः, संसिक्ता समुदश्वसत् ।। २५० ।। सा तेनाऽशोभि गर्भेण, मेघमालेव भानुना । शुक्तिर्मुक्ताफलेनेव, सिंहेनेवाऽद्रिकन्दरा ॥२५१ ।। प्रियङ्घश्यामवर्णाऽपि, मरुदेवा निसर्गतः । शरदा मेघमालेव, गर्भेण प्राप पाण्डुताम् ॥ २५२ ॥ तस्या अभूतां वक्षोजौ, विशेषात् पीवरोन्नतौ । स्तन्यपो नौ जगत्स्वामी, भावीतीव प्रमोदतः ॥२५३ । तस्या विशेषतोऽभूतां, सविकाशे विलोचने । भगवद्वदनं द्रष्टुं, दूरमुत्कण्ठिते इव ॥ २५४ ।। ॥ ८१॥ नितम्बभित्तिः स्वामिन्या, वैपुल्यं विपुलाऽपि हि । भेजे वर्षात्यये निम्नगायाः पुलिनभूरिव ।। २५५ ।। * यद्देवि ! ज्वलनो दृ । १ चतुर्दशरज्जुप्रमाणे ।
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy