________________
विषयताशालिशब्दबोधसामग्री अपेक्षिता । तादृशश्च बोधस्तदर्थविशेष्यकस्तदर्थनिरूपितभेदान्वयविपयकश्च नीलौ घटावित्यादौ च विशेष्यवाचकपदोत्तरविभक्त्यैव द्वित्वादिकं प्रत्याय्यते । एवं च क्रियाविशेषण वाचकपदोत्तरविभक्त्या अबाधितयोरपि द्वित्वबहुत्वयोः प्रत्यायनासम्भवात्तादृशपदोत्तरमौत्सर्गिक मेकवचनमेव
दोत्तरविभक्त्या ज यमाने संख्याबोधे निरुक्तकार्य्यतावच्छेदकानाक्रान्ततया निरुक्तकारणविरहे पि न क्षतिः । यदि च स्वाश्रयाश्रयत्वसम्बन्धेन प्रमाणत्वावच्छिन्ने व्रीहित्वावच्छिन्ने एवं संख्यान्वयस्सिद्धान्तस्तर्हि कार्य्यतावच्छेदककोटौ प्रकारतायाम्पर्य्याप्तिसम्बन्धावच्छिन्नत्वं तत्र व्यभिचारवारणाय निवेश्यम् । तादृशश्चेति । प्रभेदसम्बन्धावच्छिन्नप्रकारताभिन्नतन्निष्ठविषयतानिरूपकः पूर्वोक्त इति बोध्यम् ।
प्रत्यायना
द्वित्वादिप्रत्यय्यत इति । तद्बोधप्रयोजकनिरुक्तकारणसत्त्वात् । न "तु विशेषणवाचकपदोत्तरं विभक्त्या तद्बोधप्रयोजकनिरुक्तकारणाभावात् । एववेति । निरुवतकार्य्यकारणभावस्यावश्यकत्वे चेत्यर्थः। सम्भवादिति । निरुक्तकारणविरहादिति भावः । श्रौत्सर्गिकमेकवचनमति । संख्याबोधासम्भवेन प्रयोगसाधुत्वस्य तेनाप्युपपत्तेरिति भावः । भावाख्यातस्थलवदिति । तत्र यथा साधुत्वमात्रार्थमेवाख्यातैकवचनप्रयोगस्तद्वत्क्रियाविशेषणवाचक पदोत्तरमपीत्यर्थः ।
वैयाकरणास्तु 'फलव्यापारयोर्द्धातुरिति भूषणोक्तदिशा धातुमात्रस्य फलविशिष्टव्यापारे शक्तिः । न च सर्वेषां धातूनां तर्हि फलवाचकत्वेन सकर्मकत्वापत्तिरिति वाच्यम् । फलव्यधिकरणव्यापारवाचकत्वं सकर्म्मकत्वं फलसमानाधिकरणव्यापारवाचकत्वकर्म्मकत्वमिति स्वीकारेणादोषात् । तादात्म्यफलतावच्छेदकान्यतरसम्बन्धेन फलाश्रयस्य कर्तुरित्यनेन कर्म्मत्वन्तथा च स्तोकं पचतीत्यादौ विक्लित्यादेस्तादात्म्येन फलाश्रयत्वेन कर्म