SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ६२ व्युत्पत्तिवादः [ कारके गमर्यादया भासते । तादृशधर्मस्तत्तद्व्यक्तित्वादिरूप एव । दात्मकाधिकरणीभूताभावसामानाधिकरण्यस्य च सत्त्वेन तद्वयक्तित्वस्यापि भेदविशिष्टत्वमेव । एवं स्वस्मिन्नपि पूर्वक्षणवृत्तित्वविशिष्टस्वभेदस्य सत्त्वेन तद्भेदविशिष्टत्वमपि तद्वयक्तित्वे इति भेदविशिष्टान्यत्वमप्रसिद्धमेवेति वाच्यम्। स्वात्मकत्वस्वपर्याप्तावच्छेदकताकप्रतियोगितानिरूपकतावच्छेदकभेदत्वावच्छिन्नाधेयतानिरूपिताधिकरणताश्रयवृत्तित्वाभेदसंबन्धेन धमविशिष्टान्यत्वस्यैव विवक्षितत्वात्। अभावाधिकरणकभेदस्याभावात्मकत्वेऽपि तनिष्ठाभावत्वावच्छिन्नाधेयतानिरूपितैवाधिकरणता घटे न तु घटगततद्वयक्तित्वावच्छिन्नप्रतियोगितानिरूपकतावच्छेदकीभूतभेदत्वावच्छिन्नाधेयतानिरूपिताधिकरणतेति नाद्यरीत्या दोषः । नाप्यन्तरीत्या दोषस्तत्र पूर्वक्षणवृत्तित्वविशिष्टतद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदमादायैव दोषो वाच्यः । स न सम्भवति । पूर्वक्षणादेरपि प्रतियोगितावच्छेदककुक्षौ प्रवेशेन तद्वयक्तित्वपर्याप्तावच्छेदकताया अभावात् । नापि तद्वयक्तिपटोभयन्न सा व्यक्तिरित्युभयभेदमादायापि दोषस्तत्र प्रतियोगितावच्छेदकतायास्तद्वयक्तित्वपर्याप्तत्वाभावात् । अत्र पर्याप्तिनिवेशप्रकारस्सर्वोऽप्यनुसन्ध्येयः। . नच भेदस्तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावः । तादात्म्यञ्च भेदविशिष्टान्यत्वमित्यत्योन्याश्रय इति वाच्यम् । स्वप्रतियोगिसामानाधिकरण्यस्वसामानाधिकरण्योभयसम्बन्धेनाभावविशिष्टान्यत्वस्य विवक्षितत्वात् । तद्वयक्तित्वाभावमादाय लक्षणसमस्ययः । स्वाभावत्वमपि द्रव्यादिषट्कान्योन्याभाववत्वमेव । अन्योन्याभावश्च तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभाव इति तदवस्थ एवान्योन्याश्रय इति वाच्यम् । अभावत्वस्याखण्डोपाधिरूपत्वात् । नाप्यन्यत्वमादायान्योन्याश्रयः भेदत्वस्याप्यखण्डोपाधित्वादिति दिक् । तादृशधर्मस्तत्तद्वयक्तित्वादिरूप एवेति। तादृशो भेदविशिष्टान्यः नीलो
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy