SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ व्याख्याः किन्तु आधुनिकविद्यार्थिनां कृते न ताः सर्वथोपयोगिन्यः । इति मनसि निधाय महामहोपाध्यायमिथिलालङ्कारभूतसन्मिश्रजयदेवशर्मभिः जयाख्या सरलातिमनोहरैका व्याख्या व्यरचि । इयं विद्यार्थिनां महदुपयोगिनीत्यस्याः शीघ्रमेव पुनः संस्करणेनैव स्पष्टम् । यद्यपि शास्त्ररसिकानां दौर्भाग्यवशात्तातचरणाः प्रथमाविवरणे भेदान्वयविचारे "प्रत्ययत्वाद्यनुपस्थितिदशायां” (पृ० ११७) इति ग्रन्थपर्यन्तस्यैव टीकां विरचयन्त एव सन्निपातज्वराभिभूताः काशीविश्वेश्वरसायुज्यं प्राप्तवन्तस्तथाऽपि विद्यार्थिनामुपकाराय बहुस्थलेषु द्वितीयाविवरणादिष्वपि तातपादानां टीप्पण्यादितो ग्रन्थानद्धृत्य द्वितीयाविवरणपर्यन्तो ग्रन्थभागों जयासहितः पूर्वं प्रकाशितः। प्रायशो विविधप्रान्तीयपरीक्षासु द्वितीयापर्यन्त एव ग्रन्थः पाठ्यरूपेण निर्धारितोऽस्ति । अत एव बहुधा परीक्षार्थिभिद्वितीयाविवरणं यावदेव ग्रन्थः पठ्यते । परन्तु विशेषज्ञानलाभायातनोऽपि ग्रन्थोऽवश्यमेव पठनीयस्तत्सम्पादनाय तथा समस्तग्रन्थरक्षणाय चावशिष्टोऽप्यंश आख्यातविवरणपर्यन्तोऽद्य प्रेक्षावतां पुरतः प्रकाश्य संस्थाप्यते । ग्रन्थकर्तुष्टीकाकर्तुश्च संक्षिप्तोऽपि परिचयो ज्ञेयः । तत्र तावद् गदाधरभट्टाचार्यो जीयाचार्यपुत्रः वङ्गदेशीयवारेन्द्रब्राह्मणकुलोत्पन्नः पवनामण्डलान्तर्गतपक्ष्मीपाशनामकस्थानं स्वजन्मनाऽलङ्चकारेति विदुषां परामर्शः। प्राप्तवयस्को न्यायशास्त्र विशेषवैदुष्यसम्पादनाय गदाधरस्तार्किकशिरोमणिहरिरामतर्कवागीशसकाशमध्येतुं नवद्वीपमाजगाम । तत्राचिरेणैव तर्कवागीशमहाशयाः पञ्चत्वं प्राप्तवन्तः । गदाधरस्तु तत्स्थानापन्नोऽध्यापको बभूव । परन्तु नायं गदाधरो विद्योपाधिभिरलङ्कृतो हरिरामतर्कवागीशस्थानयोग्यः पण्डितश्चेति मत्वा पूर्वं न कोऽपि गदाधरादध्येतुमाजगाम । अनादरेणानेन गदाधरस्तु हतोत्साहो न जातः । परं पण्डितसमाजे स्वपाण्डित्यपरिचयप्रदानायोपायान्तरस्य शरणमवलम्बितवान् । आदौ पूर्वविद्यालय
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy