SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ विध्यर्थनिष्कर्षः ] जयाऽलङ्कृतः 'श्वेतं छागमालभेते' त्यादौ विधिप्रत्ययस्य बलवदनिष्टसाधनत्वापरित्याग इत्यर्थः । अथ यागपाकादिजन्यश्रमादावपि कदाचित्कस्यचिद्बलवद्वेषोदयात् यजेत पचेतेत्यादौ प्रामाण्यप्रसङ्गो दुर्वारः । यत्तु बलवदनिष्टासाधनत्वं न लौकिक विध्यर्थः किं तु न कलअमित्यादिश्रुतेः प्रामाण्योपपत्तये वैदिकलिङ्ग एव तदर्थकता तत्रापि बलवदनिष्टं नरकमेव ताद्रप्येणार्थः । श्रत इष्टोत्पत्तिनान्तरीयकश्रमादेः कदाचित् द्वेषविषयतया न यागादौ विध्यर्थबाध इति तदपि न, 'शाकं न भुञ्जीते' त्यादिवैद्यकवाक्ये वलवदनिष्टाजनकत्वनिषेधपरत्वं विना प्रामाण्यानुपपत्तेः । तत्रापि रोगाजनकत्वं विध्यर्थस्तदभावो नया बोध्यत इति चेद् 'रिक्तायां न गच्छेत्', 'पुष्ये नोहे' दित्यादिज्योतिःशास्त्रवचनस्य 'नैकः पर्वतमारोहे 'दित्यादिवाक्यस्य च का गतिः । तत्रापि विशिष्य तत्तदनिष्टासाधनत्वस्य विधिप्रत्ययार्थत्वे शक्त्यानन्त्यप्रसङ्गो व्युत्पत्त्यनुपपत्तिश्च । अत्र वदन्ति — द्वेषविषयतावच्छेदकत्वोपलक्षितनरकत्वाद्याश्रयसाधनतात्वावच्छिन्नप्रतियोगिताकाभावकूटे तादृशाभावत्वेना गते एकैव विधिप्रत्ययस्य शक्तिः । उपलक्षणीभूतद्वेषविषयतावच्छेदकत्वं परित्यज्य नरकाद्यसाधनत्वं प्रतीयते । कुत्रचिन्नरकासाधनत्वं कुत्रचिद्रोगासाधनत्वं प्रतीयत इत्यत्र तात्पर्यमेव नियामकम् । प्रतीयोगितायाः प्रकारतया भानात् प्रतियोगितावच्छेदकघटकन - रकत्वाद द्वेषविषयतावच्छेदकत्वस्योपलक्षरणतया शक्तिग्रहे भानमविरुद्धम् । ३५६ न च प्रमेयत्वादेरपि उपलक्षणतया भानमविरुद्धमिति प्रमेयत्वादेरुपलक्षणतया नरकत्वाद्यनुगमकत्वं कथं न स्वीक्रियते विनिगमकाभावादिति वाच्यम् । सुखाद्यसाधनत्वस्य विध्यर्थता विरहेण
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy