SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३५६ . व्युत्पत्तिवादः [ प्राख्याते __'न कलङ्गं भक्षये दित्यादिनिषेधविधेः प्रामाण्यानुरोधतः बलवदनिष्टाननुबन्धित्वस्य विध्यर्थे प्रवेशः। निषिद्धेऽपि कलञ्जभक्षणादौ तृप्त्यादिरूपेष्टसाधनत्वसत्त्वेन तदभावस्य नबा बोधने प्रामाण्यानुपपत्तेः। बलवदनिष्टाननुबन्धित्वस्य विधित्वे तस्यैवाभावो बलवदनिष्टनरकानुबन्धिनि तत्तत्कर्मण्यबाधितो बोध्यत इति तत्प्रामाण्योपपत्तिः। बलवदनिष्टाननुबन्धित्वस्येष्टसाधनताविशेषणतया वाच्यत्वे विशिष्टाभावस्यैव शाब्दबोधे भानम्। सोऽपि विशेषणाभावो यतोऽबाधितः कलञ्जभक्षणादौ विशिष्टाभावबोधानन्तरमेव तल्लिङ्गकानुमानगम्यो बलवदनिष्टानुबन्धित्वरूपस्तदननुबन्धित्वाभावः प्रवर्तकमिव निवर्त्तकमपि ज्ञानं श्रुतिवाक्यात्परम्परयैव न तु साक्षात्। . एतन्मते च न तादृशाभावस्य शाब्दबोधे भानं पदार्थंकदेशतया इतरविशेषणतयोपस्थितत्वेन नबर्थविशेषणतयाऽनिष्टाननुबन्धित्वान्वयासंभवात् । वस्तुतो विशिष्टशक्तौ विशेष्यविशेषणभावे विनिगमनाविरहात् पृथगेव बलवदनिष्टाननुबन्धिताया वाच्यत्वम् । न च बलवदनिष्टाननुबन्धित्वे इष्टसाधनत्वस्य विशेष्यत्वे विधिवाक्यतः क्रियाविशेष्यकेष्टसाधनताज्ञानासंभवात् क्रियागोचरचिकीर्षाद्यर्थं विधिवाक्यजशाब्दबोधोत्तरमिष्टसाधनत्वप्रकारकक्रियाविशेष्यकज्ञानान्तरं कल्पनीयमिति तदकल्पनप्रयुक्तलाघवमेव बलवदनिष्टाननुबन्धित्वस्य विशेषणत्वे विनिगमकमिति वाच्यम् । क्रियायां बलवदनिष्टासाधानत्वज्ञानस्यापि तद्गोचरेच्छाहेतुतया बलवदनिष्टासाधनत्वस्येष्टसाधनत्वविशेषणत्वमते क्रियाविशेष्यकतत्प्रकारकज्ञानान्तरस्य कल्पनीयतया मतद्वये कल्पनासाम्यात् । यदि च बलवदनिष्टसाधनत्वज्ञानमेव द्वेषसामग्रीत्वेनेच्छाप्रतिबन्धक न तु तदसाधनत्वज्ञानमिच्छाहेतुस्तदोक्तस्य विशेष्यविशेषणभावे विनिगमकस्य संभवेऽपि विशिष्टस्य वाच्यत्वे श्येने विध्यर्थवाच्येन
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy