________________
२८
व्युत्पत्तिवादः
[ कारके प्रसिद्धावपि न क्षतिः। एतद्देशविद्यमानघटनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वस्यैव तत्र बोधादिति तस्य च प्रसिद्धत्वात्। एतद्देशे बहु
रूपः । तत्र वैशिष्ट्यं स्वप्रयोज्यप्रकारतावच्छेदकतया विवक्षितसंसर्गावच्छिन्नत्वस्वविशिष्टनिष्ठभेदप्रतियोगितानिरूपितत्वोभयसम्बन्धेन । तत्र वैशिष्टयं स्वप्रकृत्यर्थतावच्छेदकधर्मवत्त्वस्वविशिष्टसमुदायत्वावच्छिन्नाधेयतानिरूपिताधिकरणतावत्त्वोभयसम्बन्धेन । समुदायत्वे वैशिष्टयं स्वप्रकृत्यर्थनिष्ठाधिकरणतानिरूपिताधेयतावच्छेदकत्वस्वसमभिव्याहृतपदार्थसंसर्गवृत्तित्वस्वसमभिव्याहृतपदार्थसंसर्गतरावृत्तित्वस्वसमभिव्याहतपदार्थसंसर्गवृत्त्यभावाप्रतियोगित्वैतच्चतुष्टयसम्बन्धेनेति तत्त्वम् । संसर्गश्च स्वप्रयोज्यशाब्दबोधीयविषयतया साक्षात्परम्परया निरूपितविषयताश्रयो ग्राह्यस्तेन प्रकृतशाब्दबोधाविषयसंसर्गमादाय नातिप्रसङ्गः । बहुविशेषणानां फलान्युक्तान्येवावशिष्टमुच्यते । सम्पन्नो व्रीहिरित्यादौ व्रीहित्वगतै कत्वे सजातीयव्रीहिनिष्ठो यो व्रीहित्वगतैकत्ववान्नेत्याकारको भेदस्तत्प्रतियोगितावच्छेदकत्वस्यैव सत्त्वेन कथन्तदेकवचनार्थ इति शङ्कावारणायावच्छेदकतायां स्वप्रयोज्यप्रकारतावच्छेदकेत्यादिनिवेशितम् । प्रकृतभेदीयप्रतियोगितावच्छेदकतायास्समवायसम्बन्धावच्छिन्नत्वेन स्वप्रयोज्यप्रकारताच्छेदकः स्वाश्रयाश्रयत्वरूपस्तदवच्छिन्नत्वाभावात् । तत्र हि स्वार्थकत्वस्य स्वाश्रयाश्रयत्वसम्बन्धेनैव बीहावन्वयेनापत्त्यभावः । स्वाश्रयाश्रयत्वसम्बन्धेन व्रीहित्वगतैकत्वविशिष्टभेदस्य च ब्रीहावभावादिति दिक् । स्वसमभिव्याहृतेत्यत्र स्वमेकवचनम् ।
साजात्यनियामकतया प्रकृत्यर्थतावच्छेदकधर्ममात्रस्यं चहणे दोषमाहअतोऽत्र घटोऽस्तीत्यादाविति । अतः स्वसमभिव्याहृत पदार्थसंसर्गित्वनिवेशादित्यर्थः । अन्यथा घटमात्रस्य सजातीयत्वादिति भावः । समभिव्याहृतेत्यादिनिवेशलभ्यमाह-एतद्देशविद्यादानेत्यादि तादृशवाक्येति । अत्र