________________
स्त्रीप्रत्ययाः ] जयाऽलङ्कृतः
३१७ तदन्तर्भावेन पृथक् तदुपादानानुपपत्तेः। कचित्स्त्रीप्रत्ययः स्त्रियं भार्यात्वेन प्रकृत्यर्थविशेष्यतया बोधयति आचार्याणी मानवी शूद्रीत्यादौ। भार्यात्वं संबन्धविशेषः। तत्रैव च निरूपकत्वेन प्राकृत्यर्थान्वयः । खट्वाटवीदेवतापदे च स्त्रीप्रत्यया नार्थबोधकाः । तत्र प्रकृत्यर्थे योनिमत्त्वरूपस्त्रीत्वस्यायोग्यतयाऽनन्वयात् । ___ न च शब्दगतं स्त्रीत्वादिरूपधर्मान्तरमेव तत्र परम्परासंबन्धेनार्थगततया भासत इति श्रीपतिदत्तोक्तं युक्तम् । तद्भाने मानाभावात्। यूस्ख्याख्यावित्यत्र स्व्याख्यपदं स्त्रीलिङ्गशब्दपरं न तु स्त्रीत्वविशिष्टार्थकशब्दपरम् । तेनाटव्यादिशब्दानां स्त्रीत्वविशिष्टाबोधकत्वेऽपि न नदीसंज्ञानुपपत्तिः । अत एव स्त्रीभूप्रभृतीनां स्त्रीप्रत्ययान्तत्वाभावेन स्त्रीत्वविशिष्टबोधकत्वेऽपि नदीसंज्ञाप्रसक्त्या नेयवस्थानाविति निषेधसंगतिः। न चैवं सेनान्ये स्त्रियै इत्यादावपि नदीसंज्ञा स्यात् । सेनान्यादिशब्दस्य तत्र विशेष्यनिघ्नतया स्त्रीलिङ्गत्वादिति वाच्यम् । प्रयोगानुसारेण विशेष्यसमभिव्याहारानधीनायाः स्त्रीलिङ्गताया विवक्षणीयत्वादिति संक्षेपः।
इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते
व्युत्पत्तिवादे लिङ्गार्थविवरणम्।
अथ तद्धितार्थविवरणम् तद्धितप्रत्यया अपि नामप्रकृतिकाः क्वचित्प्रकृत्यर्थेन स्वार्थंकदेशस्य कचिच्च तेन स्वार्थस्यान्वयबोधं जनयन्ति । तत्र गार्गिरित्यत्रापत्यार्थविहिततद्धितार्थस्यापत्यस्यैकदेशेजन्यत्वे निरूपकतयाप्रकृत्यर्थगर्गाद्यन्वयः । गार्ग्य इत्यादौ तद्धितार्थस्य गोत्रापत्यैकदेशपुत्रघटकजन्यत्वे तथा तदन्वयः। गाायण इत्यादौ तद्धितार्थस्य युवाप