________________
चतुर्थी ] जयाऽलङ्कृतः
२८५ पुनः परिशोधनीयं तदादाय धारयतीत्यापत्तेः । तदीयपरिशोधनस्यापि स्वकर्त्तव्यतयापूर्वाभ्युपगमविषयत्वात् तत्प्रागआवस्य पूर्वपरिगृहीतशोधनोत्तरमपि सत्त्वात् । न च स्वप्रतियोग्यादाननिर्वाहकाभ्युपगमविषयीभूतं यद् द्रव्यदानं एकक्षणावच्छिन्नैकाधिकरणवृत्तित्वसंबन्धेन तद्विशिष्टान्यप्रागभावविशिष्टादानध्वंसस्तथा । उक्तस्थले चोदीच्यपरिशोधनप्रागभावः प्रथमादानप्रयोजकाभ्युपगमविषयपरिशोधनविशिष्टः । प्रथमपरिशोधनप्रागभावश्च प्रथमपरिशोधनोत्तरं नास्त्येवेति नोक्तातिप्रसङ्ग इति वाच्यम् । एवमपि यस्य ऋणस्य परिशोधनमप्रसिद्धं तदादानपूर्वकालीनस्य तावद् द्रव्यं मया तुभ्यं देयमित्यभ्युपगमस्य तदुत्तमर्णोदेश्यकत्वेन स्वकर्तृकान्योद्देश्यकतावद्रव्यदानमेव विषय इत्युपेयम् । तदुत्तमर्णोदेश्यकतत्कर्तृकतावद्रव्यदानस्याप्रसिद्धत्वात् । तथा चान्योद्देश्यकतावद्रव्यदानोत्तरं तदभ्युपगमविषयद्रव्यदानविशिष्टान्यप्रागभावासत्त्वाद्वारयतीति व्यवहारानुपपत्तिरिति चेत् ।
अधातुः---ऋणग्रहणेनाधमर्णनिष्ठः परिशोधननाश्योऽदृष्टविशेषणे जन्यते । तेनैवाहन ऋणमपरिशोध्य मृतस्य नरकादिकम्। तथा च द्रव्यान्तरदानाभ्युपगमपूर्वकपरदत्तद्रव्यादानजन्यादृष्टविशेपवत्त्वमेव भास्क्लेरर्थः । तद्धटकदानान्वयि कर्तृत्वं तत्र चतुर्थ्यर्थः । न च ऋणाशोधनमेव दुरदृष्टजनकमुपपातकमध्ये तस्य परिगणनात्। न तु ऋणादानम् । तस्य तथात्वे मानाभावादिति वाच्यम् । ऋणादानस्य दुरदृष्टविशेषजनकत्वेऽपि परिशोधनेन तस्य नाश इति बोधनायापरिशोधनस्य नरकरूपफलोपधानप्रयोजकत्वाभिप्रायेण तस्योपपातकमध्ये परिगणनोपपत्तेः । ऋणमादायापरशोधकस्य नरकभागितया ऋणादानस्यैव दुरदृष्टसाधनतायाः कल्पनीयत्वात् । गृहीतर्णपरिशोधनापेक्षया लघुत्वात् । अपरिशोधनस्य हेतुत्वे परिशोधनपूर्वकालेऽप्यपरिशोधनसत्त्वे दुरदृष्टोत्पत्तेरावश्यकतया परि