________________
तृतीया ] जयाऽलङ्कृतः
२७३ नत्वेन सहितम्य विधेयतात्वस्यैवान्वयितावच्छेदकत्वात् । वह्नयादिपदमेव तदवच्छिन्नविधेयताशालिज्ञानपरम् । तदुत्तरमतुबादिप्रत्ययो विशेष्यतारूपसंबन्धपर इति प्राचीनमते तु वह्नित्वाद्यवच्छिनविधेयतात्वस्यान्वयितावच्छेदकत्वमविवादमेव । विधेयतायास्तत्तत्संबन्धावच्छिन्नविधेयतात्वेन पञ्चम्याद्यर्थत्वं स्वीकरणीयम् । तेनायं जानाति आत्मत्वान्न द्रव्यत्वादित्यादौ विषयतासंबन्धावच्छिन्नायां प्रकृतविशेष्यतानिरूपितज्ञानविधेयतायां द्रव्यत्वादिरूपलिङ्गज्ञानप्रयोज्यत्वसत्त्वेऽपि नावच्छेदकावच्छेदेनाभावान्वयायोग्यत्वम्। संबन्धविशेषावच्छिन्नविधेयतात्वरूपान्वयितावच्छेदकावच्छेदेनाभाववत्त्वबोधात् । एवं ज्ञानप्रयोज्यत्वप्रविष्टं ज्ञानमपि तत्तत्संबन्धावच्छिन्नप्रकारकत्वविशेषितमर्थः। तेन समवायेन हेतुत्वपरस्यायं वह्निमान तद्रूपान्न तु धूमादिति प्रयोगस्य नायोग्यता। वह्निविधेयतायां संयोगेन धूमप्रकारकज्ञानप्रयोज्यत्वसत्त्वेपि समवायसंबन्धावच्छिन्नतत्प्रकारताशालिज्ञानप्रयोज्यतात्वरूपान्वयितावच्छेदकावच्छिन्नाभावस्याबाधात्संबन्धविशेषघटितधर्मस्यान्वयितावच्छेदकतया भाननियामकं तु तात्पर्यमेव वह्नयादिविधेयताया व्याप्त्यादिघटकाभावादिज्ञानप्रयोज्यत्वसत्त्वेऽपि पर्वतो वह्निमानभावादित्यादिर्न प्रयोगः । मुख्यविशेष्यतानिरूपितप्रकारताया एव निवेशनीयत्वादिति दिक् । केन हेतुना कस्मै हेतव इत्यादौ विभक्तिभिहेतुताविशिष्टे हेतुताबोधयितुमशक्या पौनरुक्त्यादिति न शङ्कथम् । हेतुशब्दस्य स्वरूपयोग्यपरत्वात् । विभक्तेः फलोपधानपरत्वात् । दण्डवान् रक्तदण्डवानितिवत् कार्यविशेषानुपरक्तहेतुताविशिष्टे कार्यविशेषोपरक्तहेतुताबोधेऽनाकाङ्क्षताविरहाच्च । न चान्वयबोधसंभवेऽपि हेतुशब्दप्रयोगवैयर्थ्यम् । फलोपधायकतालाभे स्वरूपयोग्यताया अर्थाल्लाभसंभवादिति वाच्यम् । विभक्तरन्यार्थताया अप्यन्यत्र दृष्टत्वाद्धतुतापरत्वनिश्चयाथै तत्प्रयोगात् ।
१८