SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २७० व्युत्पत्तिवादः . [ कारके कज्ञानविषयधूमादेश्वानुमितिकारणतावच्छेदकतया प्रयोजकत्वमक्षतमेव । उक्तसमूहालम्बनस्थलेऽतिप्रसङ्गश्च वह्निविधेयकानमितित्वावच्छेदेन प्रयोजकतानिरूपकत्वभानाभ्युपगमेन वारणीयः । वस्तुतो जनकतावच्छेदकादिनिष्ठप्रयोजकतानिरूपकत्वं कार्यस्येव कार्यतावच्छेदकस्याप्यक्षतं प्रतीतिसाक्षिकं च। तथा चानुमितिविशेषणतत्तद्विधेयकत्वरूपसुबन्तार्थ एव तृतीयार्थान्वय उपगम्यते । समूहालम्बनानुमितिनिष्ठघटादिविधेयकत्वस्य धूमाद्यप्रयोज्यतया नोक्तार्थातिप्रसङ्गः। धूमेन वह्निमनुमिनोति न घटेनेत्यादावनुमितौ घटादिप्रयोज्यत्वाभावो नान्वेति । अपि तु नञर्थाभावप्रतियोग्यन्वयिनि वह्नयादिविधेयकत्व एवातो यत्र धूमादिलिङ्गवह्नयनुमितौ घटादिरूपलिङ्गाधीनं द्रव्यत्वादिभानं तत्र धूमेन वह्निमनुमिनोति न घटेनेति प्रयोगोपपत्तिः। समूहालम्बनरूपतादृशानुमितौ घटादिरूपलिङ्गप्रयोज्यत्वाभावस्यासत्त्वेऽपि वह्नयादिविधेयकत्वे तदबाधात् । न ह्यनुमितावपि द्रव्यत्वादिविधेयकत्वावच्छिन्नघटादिलिङ्गप्रयोज्यत्वस्य वह्नयादिविधेयकत्वावच्छेदेनाभावो बाधित इति संभवति । प्रयोज्यताया व्याप्यवृत्तित्वात् । एतेनानुमितौ धूमादिलिङ्गज्ञानकरणकत्वं तृतीयया प्रत्याय्यते । करण एव तृतीया तत्रेति मतं प्रत्युक्तम् । उक्तस्थलेऽनुमितौ नबर्थान्वययोग्यताया अनुपपत्तेः। वह्नयादिविधेयकत्वे धूमादिज्ञानरूपकरणजन्यतावच्छेदकत्वतदभावौ तृतीयान्ततत्समभिव्याहृतनभ्यां प्रत्याय्येत इत्यपि न सत्। कारकविभक्त्यर्थस्य क्रियातिरिक्तेऽनन्वयात् । न चोक्तस्थले वह्नयादिविधेयकत्वावच्छेदेन घटादिरूपलिङ्गज्ञानजन्यतावदनुमितिमस्वाभावः पुरुषनिष्ठो नत्रा प्रत्याय्यते। तादृशानुमितिघंटादौ वह्नयादिलिङ्गत्वभ्रमदशायां प्रसिद्धति वाच्यम् । धूमेन वढेरनुमानमिदं न घटेनेत्यादावनुमितिमत्त्वाद्यभावबोधानुपपत्तेरिति प्राहुः । पर्वतो धूमेन वह्निमानित्यादौ क्रियायोगाभावाद्धेतुतृतीयैव तत्र ज्ञापकज्ञा
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy