SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ तृतीया ] जयाऽलङ्कृतः २६३ होतृव्यवहारो न यष्टरि । अतः प्रतिग्रहीतृव्यापारो न स्वत्वजनकस्तथा सति तत्र दातृव्यवहारापत्तेरिति तु जीमूतवाहनः । अथास्तु चैत्रेण मैत्रेण पाच्यत इत्यादौ स्वतन्त्रव्यापारस्य हेतुकर्तृव्यापाराधीनत्वेऽपि दर्शितरीत्या तस्य स्वतन्त्रकर्तृत्व निर्वाहस्तथापि तद्वाचकपदोत्तरं तृतीयानुपपत्तिः कर्तृत्वस्य णिच्प्रत्ययेनाभिधानादिति चेन्न। कर्तृत्वनिर्वाहकत्वसंबन्धेन पाकाद्यन्वयिनो हेतुकर्तृव्यापारस्य णिजर्थत्वेन स्वतन्त्रकर्तत्वस्य णिचानभिधानात्। कर्तृत्वरूपफलावच्छिन्नस्य तादृशव्यापारस्य णिजर्थतामतेऽपि आश्रयोपपरक्तस्यान्यतो भानानिर्वाहेण कर्तुरनभिधानात्तृतीयोपपत्तेः । आख्यातस्य धर्म्यवाचकत्वेऽपि कृतिविशिष्टबोधकत्वरूपस्य कर्बभिधानस्याक्षतत्वाच्चैत्रः पचतीत्यादौ न तृतीया । न चैवं मुख्यविशेष्यतया कृतिविवक्षया चैत्रेण पचतीति स्यादिति वाच्यम् । आश्रयातिरिक्तांशे विशेषणतया कृतिबोधनस्यैव कभिधानरूपत्वात्। तथा तदभिधानं च लकृत्तद्धितसमासानामेव। अत एव तैरेवाभिधानं वृत्तिकृता विवृतम् । इदं त्ववधेयम् । यद्यपि स्वतन्त्रव्यापारमात्र एव तृतीयादेरनुशासनं तथापि लाघवात्कृतिरूप एव कर्तृत्वे तृतीयादेः शक्तिः । अचेतनव्यापारे निरूढलक्षणैव । अनुशासनस्यानादितात्पर्यमात्रग्राहकत्वात् । लाघवसहकृतस्यैव तादृशतात्पर्यस्य शक्तिकल्पकत्वात् । व्यापारे तत्सत्त्वेऽपि गौरवेण शक्त्यसिद्धेः । एवं च कर्तृत्वरूपकृतिबोधस्थले कारकान्तरव्यापारानधीनत्वं न प्रतीयत इति तदन्तर्भावेण शक्तिकल्पने मानाभावः। व्यापारलाक्षणिकेन कर्तप्रत्ययेन लक्षणया तदन्तर्भावेण व्यापारबोधनादेव पूर्वोक्तातिप्रसङ्गवारणात् । अन्यथा तदन्तर्भावेण कृतिशक्तावपि तादृशातिप्रसङ्गस्य दुर्वारत्वादिति घटो जायते, अोदनः सिद्धयतीत्यादौ सत्यकार्यविद्वेषिणां नैयायिकानां कारकत्वं कर्तृत्वं च घटादेर्यथाश्रुतसूत्रानुसारेण दुरुपपादमेव । मुख्यं च क्रियाकर्तृत्वं क्रिया
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy