________________
द्वितीया ]
जयाऽलङ्कृतः
२४६
पाद्यस्य कर्मान्तरस्य विधायकत्वेऽपि न कथं वाक्यभेदः। विधेयभेदस्य तावताप्यपरिहारात् । प्रत्युत धर्मिणोऽप्यधिकस्य विधानात् । एवं च'प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवो ऽप्येकयत्नतः ।'
इत्यपि नियुक्तिकमिति चेन्न । यत्र विधेयांशे युगपदनेकधर्माणां विशेषणतया भानं तत्र विधेयविशेषणभेदेऽपि विशिष्टनिष्ठविधेयत्वाभेदेन वाक्यभेदविरहात्। अन्यथा भूतलं नीलघटवदित्यादावपि नीलवद्घटवदित्यादाविव वाक्यभेदप्रसङ्गात् । अनुवाद्यांशे विशेषणतया यत्रानेकेषां विधानं तत्र तेषां विधेयता भिन्नैवेति वाक्यभेदः । यद्यपि तत्रोपसच्चरकरणकहोमाधिकरणतात्वेन वाधिकारिविशेषकृततादृशहोमाधिकरणतात्वेन वा मासैकव्यापकता मासन्यूनकालहोतृकृतहोमाधिकरणतायामप्यन्यान्यदिने पुरुषान्तरकर्तृकहोमाधिकरणतासत्त्वेनाक्षतैव तत्तत्पुरुषकर्तृकतादृशहोमाधिकरणतात्वेन व्यापकतायाः श्रुतितात्पर्यविषयत्वे च विधेयानन्त्यं तथापि विभिन्नपुरुषकर्तृकहोमाधिकरणताद्वयावृत्तितादृशचरुहोमाधिकरणतामात्रवृत्तिधर्मत्वेनानुगतीकृत्य तत्तत्पुरुषकर्तकतादृशचरुहोमाधिकरणतात्वावच्छिन्नव्यापकतानां संसर्गविधया विवक्षितत्वान्न दोषः । तादृशाधिकरणताद्वयावृत्तित्वं च स्ववृत्तित्वस्वनिरूपकहोमकर्तृनिष्ठभेदप्रतियोगिकर्तृकहोमाधिकरणतावृत्तित्वोभयसम्बन्धेनाधिकरणताविशिष्टान्यत्वरूपमनुगतं बोध्यम् । मासमधीत इत्यादावपि चैत्रादिककाध्ययनाधिकरणतात्वरूपव्यापकतावच्छेदकधर्मस्योक्तानुगतरूपेणैवानुगमः कार्यः। अतो मासमधीयानो दृष्ट इत्यादौ विशिष्य चैत्रत्वाद्यनुपस्थितावपि नान्वयबाधानुपपत्तिः । अन्यत्स्वयमूहनीयम् । ___ दण्ड विना न घट उत्पद्यते, रासभं विनाऽपि घट उत्पद्यत