________________
२३८
मस
लिदभला
व्युत्पत्तिवादः
[ कारके यदसज्जायते पूर्व जन्मना यत्प्रकाश्यते । तन्निर्वत्य विकार्य तु कर्म द्वेधा व्यवस्थितम् ॥ प्रकृत्युच्छेदसम्भूतं किञ्चित्काष्ठादिभस्मवत् । किंचिद्गुणान्तरोत्पत्त्या सुवर्णादिविकारवदिति” । .
अत्र' प्रकृतिरपि ग्राह्या। अन्यथा काष्ठसुवर्णादेस्तुरीयतापत्तेः । विकार्यपदेनैकव्युत्पत्त्या प्रकृतिविकृत्युभयाबोधनेऽपि उभयसाधारणरूपावच्छिन्नपारिभाषिकमेव विकार्यपदम् । प्रकृतिरूपं कर्म च क्रिया वस्त्वन्तरनिष्पत्तये पूर्वभीवविशिष्टस्य यस्यासत्त्वरूपों विकारो निर्वाह्यते तद्यथा पाकादेस्तण्डुलादिकृतेश्च पुष्पकाशादि । तत्र प्रथमस्थले तण्डुलादिरूपधर्मिनाशादेव पूर्वभावविशिष्टं तदसत्त्वमोदनादिरूपकर्मान्तरनिष्पादकम् । इतरत्र धर्मिणः काशकुसुमादेः सत्त्वेऽपि कटसंदर्भादिविरहरूपपूर्वभावासत्त्वेन तद्विशिष्टस्यासत्त्वं कटसंदर्भादिनिष्पादकक्रियातो निर्वहति । एवं च तण्डुलानोदनं पचतीत्यादौ प्रकृतिकर्मोत्तरद्वितीयाया नाशकत्वमर्थस्तण्डुलाद्यन्वितं नाशकत्वं च पाकेऽन्वेति । विकृतिकर्मोत्तरद्वितीयायाश्च उत्पादकत्वमर्थः। ओदनाद्यन्वितस्य तस्य नाशकत्वविशिष्टे पाकेऽन्वयः। नाशे चोत्पत्तेः प्रयोजकत्वमुद्देश्यतावच्छेदकविधेयभावमहिम्ना नियमतो भासते। अत: पाकस्य' तण्डुलाद्यारम्भकसंयोगनाशजनकत्वेऽपि तन्नाशस्य द्रव्यान्तरोत्पत्तौ द्रव्यनाशेनान्यथासिद्धतया प्रयोजकत्वबाधेन संयोगमोदनं पचतीति न प्रयोगः।
१ अत्रेति । विकार्यकर्मणीत्यर्थः ।
पूर्वभावविशिष्टस्येति । तण्डुलत्वादिविशिष्टस्येत्यर्थः । ३ अतः पाकस्येत्यादि । ततश्च तण्डुलनाशप्रयोज्या या प्रोदनोत्पत्तिस्तत्प्रयोजक: पाक इति बोधः ।