________________
कृत्यर्थे भानोपगमादिति वाच्यम् । भोजनं भवत्वित्यादिभोजनविशष्यकेच्छादशायामपि बुभुक्षते इति प्रयोगस्य सर्वसिद्धत्वेन धात्वर्थविशेष्यकेच्छाबोधकतायाः सन्प्रत्ययस्यावश्यमुपेयत्वात् । न च द्वयी व्युत्पत्तिरेवोपयते । एकव्युत्पत्त्यैव निर्वाहे व्युत्पत्ति-: द्वयकल्पने गौरवात् । अत एव च स्थित्यादिगोचरेच्छाया गृहादिविशेष्यकत्वस्योक्तरीत्या सम्भवेऽपि गृहं तिष्ठासतीत्यादयो न प्रयोगाः । भोजन प्रकारकौदनविशेष्यकेच्छाविशेषदशायां बुभुक्षत इति प्रोगसत्त्वेन उद्देश्यताख्यविषयताया एव धात्वर्थे भानोपगमेन तस्य निर्वाहात्। न च धात्वर्थविशेष्यकेच्छायाः सन्प्रत्ययार्थत्वे पाकं चिकीर्षति प्रोदनं बुभुक्षते इत्यादौ पाकौदनादेवितीयया कृतिभोजनादिकर्मत्वप्रत्यायनसंभवेऽपि पाकश्चिकीर्ण्यते अोदनो बुभुक्ष्यते इत्यादौ कर्माख्यातेन तत्प्रत्यायनासंभवः । तत्प्रकृतिभूतसन्नन्तधात्वर्थकृतिभोजनेच्छाकर्मत्वस्यैव तत्प्रत्ययेन बोध्यत्वात् । प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वात् । इच्छाविषयत्वविशेषितकृतिभोजनादेश्च प्रकृत्याऽप्रतिपादनादिति वाच्यम्। कर्तृप्रत्ययस्थले सन्प्रत्ययार्थेच्छाया धात्वर्थविशेष्यतया भानेऽपि कर्मप्रत्ययस्थले तस्या धात्वर्थविशेषणतया भागोपगमात् ।
गृहमित्यादि। तन्मते इच्छीयमुख्यविशेष्यताश्रयत्वमेव कर्मत्वं तच्च गृहेऽप्यस्तीतितादृशप्रयोगापत्तिरिति भावः । धात्वर्थविशेष्यकेच्छा सन्नर्थ इति वदतान्तु नेयमापत्तिः कृतिकर्मत्वरूपद्वितीयार्थस्य तत्र बाधादिति । . भोजनेत्यादि । कर्मतासम्बन्धेन भोजनविशिष्टमोदनं भवत्विति भावः ।
३ तस्या इति । स्वनिरूपितविषयत्ववत्वसम्बन्धेनेति भावः ।